इष्टा या भूपतेर्भर्तुस्तस्या या दुष्टमाचरेत्
सापत्नभावं या कुर्याद्भर्तृस्नेहेष्टया सह
यथा सुखं भवेद्भर्तुस्तथा कार्यं हि भार्यया
यथा भर्ता तथा तां हि पश्येत वरवर्णिनि
पश्चात्स्थाने भवेत्सापि मनसा याभवत्प्रिये
इर्ष्याभावपरित्यागात्सर्वेश्वरपदं लभेत्
भर्तुरिष्टां संनिरीक्ष्य तस्या लोको ऽक्षयो भवेत्
शूद्रजातेः सुदुष्टस्य परित्यक्तक्रियस्य तु
प्रक्षालनं द्वयोः पादौ द्वयोरुच्छिष्टभोजिनी
वेश्यया वार्यमाणापि सदाचारपथे स्थिता
जगाम सुमहान्कालो वर्तन्त्या दुःखसागरे
अभक्षयत निष्पावं दुर्मेधास्तैलमिश्रितम्
अभवद्दारुणो रोगो गुदे तस्य भगन्दरः
तस्य गेहे स्थितं वित्तं समादाय जगाम सा
ततः स दीनवदनो व्रीडया च समन्वितः
परिपालय मां देवि वेश्यासक्तं सुनिष्ठुरम्
रमते वेश्यया सार्द्धं बहूनब्दान्सुमध्यमे
सो ऽशुभानि समाप्नोति जन्मानि दश पञ्च च
तवापमानतो देवि मनो न कलुषीकृतम्
तानि सक्षमते विद्वान् स विज्ञेयो नृणां वरः
तद्भजन्त्या न मे दुःखं न विषादः कथञ्चन
अनीतं जनकाद्वित्तं बन्धुभ्यो वरवर्णिनी
दिवा दिवा त्रिर्यत्नेन रात्रौ गुह्यविशोधनम्
नखेन पातयेद्भर्तुः क्रिमीन्कुष्ठाच्छनैः शनैः
न देवि रात्रौ स्वपिति न दिवा च वरानना
यद्यस्ति वसुधा देवी पितरो देवतास्तथा
चण्डिकायै प्रदास्यामि रक्तं मांससमुद्भवम्
सादरं कारयिष्यामि उपवासान्दशैव तु
नोपभोक्ष्यामि मधुरं नोपभोक्ष्यामि वै घृतम्
जीवतां रोगहीनो हि भर्ता मे शरदां शतम्