हयस्थः प्रययौ राजा मोहिन्या सह तत्क्षणात्
अवरुह्य हयातस्मामोहिनीं वाक्यमब्रवीत्
एष ते गुरुशुश्रूषां करिष्यति यथा गुणम्
सा चैवमुक्ता पत्या तु प्रस्थिता सुतमन्दिरम्
आत्मनो भर्तृवाक्येन परित्यज्य महीपतीन्
क्रमे पञ्चदशे प्राप्ते पर्यङ्के त्ववरोपयत्
मृद्वास्तरणसंयुक्ते मणिरत्नविभूषिते
ततः पादोदकं चक्रे मोहिन्या धर्मभूषणः
नैवमस्याभवद्दुष्टं मनस्तां मोहिनीं प्रति
मेने वर्षायुतसमामात्मानं च त्रिवत्सरम्
उवाचावनतो भूत्वा सुकृती मातरस्म्यहम्
चकार सर्वभोगैस्तां युयोज च मुदान्वितः
ये लब्धे दानवाञ्चित्वा पाताले धर्ममूर्त्तिना
अष्टोत्तरसहस्रैश्च धात्रीफलनिभैः शुभैः
निष्कं पलशतं स्वर्णं कुलिशायुतभूषितम्
वलया वज्रखचिता द्विरष्टौ करयोर्द्वयोः
केयूरनूपुरौ तस्या अनर्घौ स नृपात्मजः
कटिसूत्रं तु शर्वाण्या यदासीत्पावकप्रभम्
कालनेमौ स्थिते राज्ये पतितं मूलपाचने
तं हत्वा मलये दैत्यं दैत्यकोटिसमावृतम्
अवाप कटिसूत्रं तु दैत्यराजप्रियास्थितम्
हिरण्यकशिपोः पूर्वं या भार्या लोकसुन्दरी
सा प्रविष्टा समं पत्या यदा पावकमङ्गला
सागरस्तत्तु संगृह्य रत्नश्रेष्ठयुगं किल
जनन्याः प्रददौ हृष्टः सूर्यकोटिसमप्रभम्
सहस्रकोटिमूल्ये ते मोहिन्याः संन्यवेदयत्
सर्वदेवगुरोः पूर्वं सिद्धहस्तात्सुदुर्लभम्
लब्धं तत् प्रददौ देव्या मोहिन्याः कामवर्द्धनम्
आनीतं मातृहस्तेन भोजयामास भूमिप
मया त्वया च कर्तव्यं राज्ञो वाक्यं न संशयः