देवाः पराङ्मुखास्तस्य पितरं यो ऽवमन्यते
जित्वा द्वीपवतीं पृथ्वीं बहुभूपालसंवृताम्
पितुरभ्यधिकः पुत्रो यद्भवेत्क्षितिमण्डले
त्वया साधयता भूपान्यथा हरिदिनं शुभम्
क्क गतस्तु भवांस्तात निवेश्य मयि संपदः
मन्ये निर्वेदमापन्न इमां सृष्ट्वा प्रजापतिः
मन्ये भूधरजातेयमथवा सागरोद्भवा
बालाग्रशतभागो हि व्यलीको नोपपद्यते
एवं विधा मे जननी यदि स्यात्को ऽन्यो ऽस्ति मत्तः सुकृती मनुष्यः
सत्य ते जननी पुत्र संप्राप्ता मन्दरे मया
कुर्वन्ती दारुणं पुत्र तपो देवगिरौ पुरा
मन्दरे पर्वतश्रेष्ठे बहुधातुसमन्विते
स्थिता गानपरा दृष्टा मया तत्र सुदर्शना
अनङ्गबाणसंविद्धो व्याधविद्धो यथा मृगः
वृतश्चैवापि भर्तृत्वे किञ्चित्प्रार्थनया सह
सेयं भार्या विशालाक्षी कृता भूधरमस्तके
दिनत्रयेण त्वरितः संप्राप्तस्तव सन्निधौ
इयं हि जननी पुत्र तव प्रीतिविवर्द्धिनी
तत्पितुर्वचनं श्रुत्वा हयसंस्थामरिन्दमः
प्रसीद देवि मातस्त्वं भृत्यो दासः सुतस्तव
तं पुत्रमवनीं प्राप्तं मोहिनी प्रेक्ष्य भूपते
अवागूहत बाहुभ्यामुत्थाप्य पतितं सुतम्
ततस्तां सुमनोज्ञैस्तु चारुवस्त्रैस्च भूषणैः
स्वपृष्ठे चरणं कृत्वा तस्या राजीवलोचनः
भूपालैः संवृतो गच्छन्पभ्द्यां धर्माङ्गदः सुतः
स्तूयमानः स्वयं चापि मेघगंभीरया गिरा
नवा नवतरा भार्याः पितुरिष्टा मनोहराः
पितुर्दुःखेन किं सौख्यं पुत्रस्य हृदि वर्तते
मातॄणां वन्दने मह्यं गहत्पुण्यं भविष्यति
एकमुच्चरमाणो ऽसौ राजभिः परिवारितः