पश्यमानो बहून्देशान्धनधान्यसमन्वितान्
तमायान्तं नृपं श्रुत्वा चारैर्द्धर्माङ्गदः सुतः
एषा प्कराशमायाति उदीची दिङ् नृपोत्तमाः
तस्माद्गच्छामहे सर्वे संमुखं ह्यवनीपतेः
स याति नरकं घोरं यावदिन्द्राश्चतुर्द्दशा
पदे पदे यज्ञफलं प्रोचुः पौराणिका द्विजाः
अभिवादयितुं प्रेम्णा एष मे देवदेवता
जगाम संमुखं पद्भ्यां क्रोशमात्रं पितुस्तदा
स गत्वा दूरमध्वानमाससादनृपं पथि
शिरसा राजभिः सार्द्धं प्रणाममकरोत्तदा
अवरुह्य हयाद्राजा समुत्थाप्य सुतं विभो
मूर्ध्नि चैवमुपाघ्राय उवाच तनयं तदा
न्यायागतेन वित्तेन कोशं पुत्र बिभर्षि च
कच्चित्ते कान्तशीलत्वं कच्चिद्वक्ताः न निष्ठुरम्
कच्चिद्वचनकर्तारस्तनयाश्च पितुः सदा
कच्चिद्विवादान्विप्रेस्तु समं नेक्षस आत्मज
तुलामानानि सर्वाणि ह्यन्नादीनां सदेक्षसे
कच्चिन्न द्यूतपानादि वर्तते विषये तव
न दानैर्जीर्णवस्त्रैश्च नोपजीवन्ति मानवाः
कच्चिच्च मातरः सर्वा ह्यविशेषेण पश्यसि
शशिनि क्षीणतां प्राप्ते कच्चिच्छ्राद्धपरो नरः
निद्रा मूलमधर्मस्य निद्रा पापविवर्द्धिनी
नहि निद्रान्वितो राजा चिरं शास्ति वसुंधराम्
एवमुच्चरमाणं तं तनयो वाक्यमब्रवीत्
सर्वमेतत्कृतं तात पुनः कर्तास्मि ते वचः
किं ततः पातकं राजन्यो न कुर्यात्पितुर्वचः
न तत्तीर्थफलं भुङ्क्ते यो न कुर्यात्पितुर्वचः
त्वदधीनो हि मे धर्मस्त्वं च मे दैवतं परम्
किं पुनर्देहवित्ताभ्यां केशदानादिभिर्विभो
सत्यमेतत्त्वया पुत्र व्याहृतं धर्मवेदिना