परित्यजेमां त्वं पापां गच्छावो नगराय वै
न साधूनामिदं वृत्तं भवतीति वरानने
विप्रपन्ना वरारोहे परोपकरणाय वै
चन्दनं पादपाः संतः परोपकरणाय वै
चाण्डालमन्दिरावासी भार्यातनयविक्रयी
तस्य सत्येन संतुष्टादेवाः शक्रपुरोगमाः
यदि तुष्टा हि विबुधा वरं मे दातुमर्हथ
सबालवृद्धतरुणा सनारी सचतुष्पदा
अयोध्यापातकं गृह्य गन्ताहं नरकं ध्रुवम्
स्वर्गं विबुधशार्दूलाः सत्यमेतन्मयेरितम्
जगाम स्वर्गलोकं च इन्द्रादीनामनुज्ञया
कामगेन विमानेन पूज्यमानो ऽमरैरपि
देवानामुपकारार्थं श्रुत्वा दैत्यैः पराजितान्
प्रदत्तानि वरारोहे श्येनाय क्षुधिताय वै
तेनापि जीवितं दत्तं पन्नगाय वरानने
शुचावमेध्ये ऽपि शुभे समं वर्षति वारिदः
तस्मादिमां वरारोहे गृह गोधां सुदुःखिताम्
विमोहिनीं तिरस्कृत्य गृहगोधामुवाच ह
गच्छ विष्णुगतांल्लोकान्विधूताशेषकल्मषा
विमुच्य देहं तज्जीर्णं गृहगोधासमुद्भवम्
सीमन्तमिव कुर्वाणा वैष्णवं पदमुद्भुतम्
तम्मादियं चैव शिखिप्रदीपा जगत्प्रकाशाय नृपप्रसूता
उवाच मोहिनीं हृष्टः शीघ्रमारुह्यतां हयः
तदाकर्ण्य वचो राज्ञो मोहिनी मदलालसा
उवाच च वचो भूपं भर्तारं चारुहासिनी
पुत्रवक्त्रं स्पृहा द्रष्टुं लंपटा तव वर्तते
मोहिन्या वचनं श्रुत्वा तप्रस्थे नगरं प्रति
वनानि सुविचित्राणि मृगान्बहुविधानपि
सरांसि च विचित्राणि भूभागान्सुमनोहरान्
आकाशस्थो महीपालो नमस्कृत्य त्वरान्वितः