सर्ववश्यकरं मन्त्रं क्षोभकं प्रत्ययावहम्
मृदुकाञ्चनसंभूतं अतिरिक्तप्रभान्वितम्
अपृष्टया तया ज्ञातं मम भर्त्तुर्विमाननम्
चूर्णो रक्षान्वितो ह्येष सर्वभूतवशानुगः
भविष्यति पतिर्वश्यो नान्यां यास्यति सुन्दरीम्
प्रदोषे पयसा युक्तश्चूर्णो भर्तरि योजितः
यदा स पीतचूर्णस्तु भर्ता नृपवरोत्तमा
गुह्ये तु क्रिमयो जाताः क्षतदुष्टव्रणोद्भवाः
हततेजास्तथा भर्त्ता मामुवाचाकुलेन्द्रियः
त्राहि मां शरणं प्राप्तं न गच्छेयं परिस्त्रियम्
तस्यां निवेदितं सर्वं कथं भर्ता भवेत्सुखी
दत्ते तु भेषजे तस्मिन्सुस्थो ऽभूत्तत्क्षणात्पतिः
ततः प्रभृति मे भर्ता वश्यो ऽभूद्वचने स्थितः
ताम्रभ्राष्ट्रे ह्यहं दग्धा युगानि दश पञ्च च
किञ्चित्पातकशेषेण धरायामवतारिता
साहमत्र स्थिता भूप वर्षाणामयुतं पुरा
वृथाधर्मा दुराचारा दह्यते ताम्रभ्राष्ट्रके
तस्य वश्यं चरेद्या तु सा कथं सुखमाप्नुयात्
तस्माद्भूपाल कर्तव्यं स्त्रीभिर्भर्तृवचः सदा
यदि नोद्धरसे राजन्नद्य मां शरणागताम्
या त्वया संगमे पुण्ये कृता श्रवणद्वादशी
प्रेतनिर्यातनी पुण्या मानसेप्सितदायिनी
सर्वतीर्थफलावाप्तिं कुरुते नात्र संशयः
सर्वं तदक्षयं भूप यत्कृतं विजयादिने
द्वादश्यामुपवासेन त्रयोदश्यां तु पारणे
दयां कृत्वा महीपाल धर्ममूर्तिर्भवान् क्षितौ
गृहगोधावचः श्रुत्वा मोहिनी वाक्यमब्रवीत्
तस्मात्किमनया कार्यं पापया भर्तुदुष्टया
साधुभ्यो यत्कृतं राजन्यशःस्वर्गकरं भवेत्
शर्करामिश्रितं क्षीरं काद्रवेये नियोजितम्