रुक्माङ्गद महाबाहो निबोध मम चेष्टितम्
रूपयौवनसंपन्ना तस्य नातिप्रिया विभो
नान्यस्य कस्यचिद्द्वेष्टा स तु मे नृपते पतिः
अपृच्छं प्रमदा राजन्यास्त्यक्ताः पतिभिः किल
अस्माकं प्रत्ययो जातो भर्तृत्यागावमाननात्
त्वं पृच्छ तां वरारोहे दास्यते भेषजं शुभम्
ततो ऽहं त्वरितं गत्वा तासां वाक्येन भूपते
शतस्तंभसमायुक्तः कान्तिमत्सुधया युतः
प्रावृतां दीर्घवस्त्रेण सन्ध्यारागसवर्णिनीम्
परिचारकैस्तु संयुक्ता वीज्यमाना शनैः शनैः
सर्ववश्यकरं मन्त्रं क्षोभकं प्रत्ययावहम्
मृदुकाञ्चनसंभूतं अतिरिक्तप्रभान्वितम्
अपृष्टया तया ज्ञातं मम भर्त्तुर्विमाननम्
चूर्णो रक्षान्वितो ह्येष सर्वभूतवशानुगः
भविष्यति पतिर्वश्यो नान्यां यास्यति सुन्दरीम्
प्रदोषे पयसा युक्तश्चूर्णो भर्तरि योजितः
यदा स पीतचूर्णस्तु भर्ता नृपवरोत्तमा
गुह्ये तु क्रिमयो जाताः क्षतदुष्टव्रणोद्भवाः
हततेजास्तथा भर्त्ता मामुवाचाकुलेन्द्रियः
त्राहि मां शरणं प्राप्तं न गच्छेयं परिस्त्रियम्
तस्यां निवेदितं सर्वं कथं भर्ता भवेत्सुखी
दत्ते तु भेषजे तस्मिन्सुस्थो ऽभूत्तत्क्षणात्पतिः
ततः प्रभृति मे भर्ता वश्यो ऽभूद्वचने स्थितः
ताम्रभ्राष्ट्रे ह्यहं दग्धा युगानि दश पञ्च च
किञ्चित्पातकशेषेण धरायामवतारिता
साहमत्र स्थिता भूप वर्षाणामयुतं पुरा
वृथाधर्मा दुराचारा दह्यते ताम्रभ्राष्ट्रके
तस्य वश्यं चरेद्या तु सा कथं सुखमाप्नुयात्
तस्माद्भूपाल कर्तव्यं स्त्रीभिर्भर्तृवचः सदा
यदि नोद्धरसे राजन्नद्य मां शरणागताम्