ब्रह्महा च सुरापी च स्तेयी च गुरुतल्पगः
पन्तिभेदीवृथापाकी नित्यं ब्रह्मणदूषकः
एश्चान्नास्तीति यो ब्रुयात्तमाहुर्ब्रह्मघातिनम्
समायात्यन्तरायत्वं तमाहुर्ब्रह्मधातिनम्
असत्यनिरतश्वचैव ब्रह्महा परिकीर्तितः
अन्योद्वेगरतश्चैव अन्येषां दोषसूवकः
नित्यं प्रतिग्रहरतस्तथा प्राणिवधे रतः
ब्रह्महत्या समं पापमेव बहुविधं नृप
गणान्नभोजनं चैव गणिकानां निषेवणम्
उपासमापरित्यागो देवलानां च भोजनम्
यः शूद्रेण समाहतो भोजनं कुरुते द्विजः
यः शूद्रेणाभ्यनुज्ञातः प्रेष्यकर्म करिति च
एवं बहुविधं पापं सुरापानसमं स्मृतम्
कन्दमूलफलानां च कस्तूरी पटवाससाम्
ताम्रायस्त्रपुकांस्यानामाज्यस्य मधुनस्तथा
क्रमुकस्यापिहरणमम्भसां चन्दनस्य च
पितृयज्ञपरित्यागो धर्मकार्यविलोपनम्
भक्ष्याणां चापहरणं धान्यानां हरणं तथा
भागीनीगमनं चैव पुत्रस्त्रीगमनं तथा
हीनजात्याभिगमनं मद्यपस्त्रीनिषेवणम्
भ्रातृस्त्रीगमनं चैव वयस्यस्त्रीनिषेवणम्
अकाले कर्मकरणं पुत्रीगमन मेव च
इत्येवमादयो राजन्महापातकसंज्ञिताः
यथाकथञ्चित्पापानामेतेषां परमर्षिभिः
प्रायश्चित्तविहीनानि पापानि शृणु भूपते
ब्रह्महत्यादिपापानां कथञ्चिन्निष्कृतिर्भवेत्
विश्वस्तघातिनं चैव कृतन्घानां नरेश्वर
शूद्रान्नपुष्टदेहानां वेदनिन्दारतात्मनाम्
सत्कथानिन्दकानाञ्च नेहामुत्रचनिष्कृतिः
नतस्यनिष्कृतिर्दृष्टाप्रायश्चितशतैरपि