तस्माद्यदनुकूलं ते तत्करोमि प्रशाधि माम्
मलये मेरुशिखरे वने वा नन्दने वद
उवाचानुशयं राजन्वचनं प्रीतिवर्द्धनम्
भविष्यन्ति महीपाल कथं गच्छामि ते पुरम्
यस्याः सपत्नीप्रभवं दुःखमामरणं भवेत्
ज्ञात्वा सपत्नीप्रभवं दुःखं भर्ता कृतो मया
न त्वं वससि राजेन्द्र संध्यावल्या विना क्वचित्
दुःखेन भवतो राजन्भूरि दुःखं भवेन्मम
यत्र त्वं रंस्यसे राजंस्तत्र मे मन्दरो गिरिः
स मेरुः काञ्चनमयः सन्निधाने प्रचक्षते
भर्तृस्थानं परित्यज्य स्वपितुर्वापि वर्जितम्
सर्वधर्मविहीनापि नारी भवति सूकरी
ममिष्यामित्वया सार्द्धमीशस्त्वं सुखदुःखयोः
परिष्वज्य वरारोहामिदं वचनमब्रवीत्
मा शङ्कां कुरु वामोरु यतो दुःखं भविष्यति
एहि गच्छाव तन्वङ्गि सुखाय नगरं प्रति
भुङ्क्ष्व भोगान्मया सार्द्धं तत्रस्था स्वेच्छया प्रिये
संप्रस्थिता नूपुरगोषयुक्ता विकर्षयन्ती गिरिजातशोभाम्
पश्यमानौ बहून्भावान्गिरिजातान्मनोहरमनोहरान्
केचिन्नीलसमप्रख्याः केचित्काञ्चनसत्विषः
अन्योन्यश्लेषतां प्राप्तौ सकलैः स्थावरैरिव
खन्यमानं खुरेणोर्वी कुलिशाभेन वेगिना
गृहगोधाभवत्तस्मिन् भूभागान्तर्गता किल
विदीर्यमाणां नृपतिरपश्यत्स दयापरः
ततः स वृक्षपत्रेण कोमलेन महीपतिः
ततस्तु मोहिनीं प्राह प्रेक्ष्य मूर्च्छागतां हि ताम्
येन मूर्च्छागतां सिंचे गृहगोधां विमर्द्दिताम्
तेनाभ्यषिं चन्नृपतिर्गृहगोधां विमूर्च्छिताम्
अभिघातेषु सर्वेषु शस्तं वारिप्रसेचनम्
संप्राप्तचेतना भूप गोधा वचनमब्रवीत्