ततो दृष्टो वने हृद्यो वामदेवाश्रमो मया
आरुह्य वाहनश्रेष्ठंमन्दरं द्रष्टुमागतः
प्राप्तं मच्छ्रवणे गीतं तव वक्त्रविनिर्गतम्
दृष्टेः पथमनुप्राप्ता मम त्वं चारुलोचने
सांप्रतं चेतनायुक्तस्तव वाक्यामृतेन हि
प्रत्युत्तरप्रदानेन प्रसादं कर्त्तुमर्हसि
अहं ब्रह्मभवा राजंस्त्वदर्थं समुपागता
परित्यज्य सुरान्सर्वान्विश्वंभरपुरोगमान्
संपूजयन्ती देवेशं गीतदानेन शङ्करम्
सर्वदानाधिकं भूप ह्यनन्तगतिदायकम्
ईप्सितो ऽयं मया प्राप्तो भवानवनिपालकः
अभिप्रीतो ऽसि मे राजन्नभिप्रीता ह्यहं तव
उत्थापयामास धराशयानमिन्द्रस्य यष्टीमिव मोहिनी सा
मा शङ्कां कुरु राजेन्द्र कुमारीं विद्ध्यकल्मषाम्
अनूढा कन्यका राजन् यदि गर्भं बिभर्ति हि
चाण्डालयोनयस्तिस्रः पुराणे कवयो विदुः
ब्राह्मण्यां शूद्रजनिता तृतीया नृपपुङ्गव
ततस्तां चपलापाङ्गीं नृपो रुक्माङ्गदो गिरौ
न तथा त्रिदिवप्राप्तिः प्रीणयेन्मां वरानने
मन्ये पुरन्दराद्देवि ह्यात्मानमधिकं क्षितौ
तस्माद्यदनुकूलं ते तत्करोमि प्रशाधि माम्
मलये मेरुशिखरे वने वा नन्दने वद
उवाचानुशयं राजन्वचनं प्रीतिवर्द्धनम्
भविष्यन्ति महीपाल कथं गच्छामि ते पुरम्
यस्याः सपत्नीप्रभवं दुःखमामरणं भवेत्
ज्ञात्वा सपत्नीप्रभवं दुःखं भर्ता कृतो मया
न त्वं वससि राजेन्द्र संध्यावल्या विना क्वचित्
दुःखेन भवतो राजन्भूरि दुःखं भवेन्मम
यत्र त्वं रंस्यसे राजंस्तत्र मे मन्दरो गिरिः
स मेरुः काञ्चनमयः सन्निधाने प्रचक्षते