क्षमास्वरूपामिव वै रसाया गिरेः सुताया इव रूपराशिम्
विकर्षमाणां सहसा त्रिनेत्रं लिङ्गाश्रयं देवविनोदनार्थम्
विमोहितो ऽसौ निपपात राजा विमोहिनीकामशरेण विद्धः
विसर्पिणं भूमिपतिं सुनेत्रा विलोकयामास कटाक्षदृष्ट्या
विधूनयन्ती मृगपक्षिसघान्सुवाससा गण्डभुजौ निवार्य
त्यक्त्वा हरं पूज्यतमं सुलिङ्गं गगत्वा तु पार्श्वे तमुदारचेष्टा
रुक्माङ्गदं कामशराभितप्तमुत्तिष्ठ राजन्वशगा तवाहम्
तृणीकृतं भूप समुद्वहेथा यन्मामकं रूपमवेक्ष्य हारि
धीरो ऽसि विडंबयेथाः किमर्थमात्मानमुदारचेष्टम्
प्रदाय दानं च सुधर्ममुक्तं भुङ्क्ष्व स्वदासीमिव मां रतिज्ञाम्
उन्मील्य नेत्रे राजेन्द्र शतपत्रनिभे तथा
मया बाले सुबहुशः पूर्णचन्द्रनिभाननाः
यादृशं त्वं धारयसे रूपं लोकविमोहनम्
अजल्पितवचो देवि मोहितस्तव तेजसा
नादेयमस्तीह जगत्त्रये ऽपि तवानुरागेण निबद्धचेतसः
घनस्तनीं व्योमसुबद्धदेहां निष्काननां सुंदरि वामशीलाम्
सकोशबद्धां गजवाजिपूर्णां समन्त्रिहृद्यां नगरैः समेताम्
किं पुनर्द्धनरत्नादि प्रसीद मम मोहिनि
समुवाच स्मितं कृत्वा तमुत्थाप्य नृपं तदा
यद्विदिष्याम्यहं काल तत्कार्यमविशङ्कया
येन संतुष्यसे देवि समयं तं करोम्यहम्
दशावस्थां गतो देहो मम त्वत्संगमं विना
येन मे प्रत्ययो राजन् वचने तावके भवेत्
न वक्तास्यनृतं काले मार्गायं लौकिकः कृतः
अब्रवीन्नृपतिस्तां तु सुप्रसन्नमना नृप
स्वैरेष्वपि विहारेषु कदापि वरवाणिंनि
दतो ह्येष मया हस्तो दक्षिणः पुण्यलाञ्छनः
तत्सर्वं तव वामोरु यदि कुर्यान्न ते वचः
तव रूपेण मे क्षोभः सहसा प्रत्युपस्थितः
इक्ष्वाकुवशसंभूतः सुतो धर्माङ्गदो मम