शतसूर्यप्रतीकाशं सर्वतः काञ्चनावृतम्
तद्भूभागं नगाकीर्णं बहुधातुविभूषितम्
निम्नागायुतसंपूर्णं धौतं गङ्गाजलैः शुभैः
घटप्रमाणैर्नृपते परिपक्वैः सुगन्धिभिः
द्विरेफध्वनिसंयुक्तं कोकिलस्वरनादितम्
संपश्यमानो नृपतिर्विवेश स महागिरिम्
स वीक्षते यावदसौ समन्तात्तावत्समस्तं द्रुमपक्षिसंघम्
उपप्लवन्तं तरसा महीपस्तेनैव सार्द्धं स जगाम तूर्णम्
विमोहितो येन विमुच्य वाहं त्रिविक्रमेणेव विलङ्घ्यमानम्
गिरौ स्थितां तप्तसुवर्णभासं कामस्य यष्टीमिव निर्मितां च
क्षमास्वरूपामिव वै रसाया गिरेः सुताया इव रूपराशिम्
विकर्षमाणां सहसा त्रिनेत्रं लिङ्गाश्रयं देवविनोदनार्थम्
विमोहितो ऽसौ निपपात राजा विमोहिनीकामशरेण विद्धः
विसर्पिणं भूमिपतिं सुनेत्रा विलोकयामास कटाक्षदृष्ट्या
विधूनयन्ती मृगपक्षिसघान्सुवाससा गण्डभुजौ निवार्य
त्यक्त्वा हरं पूज्यतमं सुलिङ्गं गगत्वा तु पार्श्वे तमुदारचेष्टा
रुक्माङ्गदं कामशराभितप्तमुत्तिष्ठ राजन्वशगा तवाहम्
तृणीकृतं भूप समुद्वहेथा यन्मामकं रूपमवेक्ष्य हारि
धीरो ऽसि विडंबयेथाः किमर्थमात्मानमुदारचेष्टम्
प्रदाय दानं च सुधर्ममुक्तं भुङ्क्ष्व स्वदासीमिव मां रतिज्ञाम्
उन्मील्य नेत्रे राजेन्द्र शतपत्रनिभे तथा
मया बाले सुबहुशः पूर्णचन्द्रनिभाननाः
यादृशं त्वं धारयसे रूपं लोकविमोहनम्
अजल्पितवचो देवि मोहितस्तव तेजसा
नादेयमस्तीह जगत्त्रये ऽपि तवानुरागेण निबद्धचेतसः
घनस्तनीं व्योमसुबद्धदेहां निष्काननां सुंदरि वामशीलाम्
सकोशबद्धां गजवाजिपूर्णां समन्त्रिहृद्यां नगरैः समेताम्
किं पुनर्द्धनरत्नादि प्रसीद मम मोहिनि
समुवाच स्मितं कृत्वा तमुत्थाप्य नृपं तदा
यद्विदिष्याम्यहं काल तत्कार्यमविशङ्कया