इह जन्मकृतं वापि परजन्मकृतं तथा
मम पुण्यं वद ब्रह्मन् विचार्य स्वमनीषया
विद्वत्सु पूजा द्विजदानशक्तिर्मन्ये ऽहमेतत्सुकृतप्रसूतम्
चिन्तयित्वा क्षणं ज्ञात्वा कारणं तमुचाव ह
दारिर्द्येण पराभूतो दुष्टया भार्यया तथा
निवसन्दुःखसंतप्तो बहुवर्षाणि पार्थिव
ततः सर्वाणि तीर्थानि परक्रम्य महीपते
तत्र स्नातं त्वया विप्रसंगेन यमुनाजले
मन्दिरे च वराहस्य कथ्यमानां कथां नृप
चतुर्भिः पारणैर्यस्य निष्पत्तिस्तु विधीयते
लक्ष्मीभर्ता जगन्नाथो निःशेषाघौघनाशनः
अशून्यशयनं पुण्यं गृहे वृद्धिकरं परम्
सुखमीदृग्विधं लोके दुर्लभं प्रतिभाति मे
ग्राह्यमेतद्व्रतं पुण्यं जन्ममृत्युजरापहम्
शय्यादानैर्वस्त्रदानैस्तथा ब्राह्मणभोजनैः
इमानेवाग्रतः पुण्यास्त्वयोक्तान्विस्तराच्छृणु
पूर्वजन्मनि देवेशस्त्वयाशून्येन पूजितः
अवश्यं प्राप्यसे राजन् विष्णोः सायुज्यतां ध्रुवम्
संपदां प्रभवोपेतो ज्ञातेरुत्कर्षणार्थकः
अवश्यं सर्वयोग्यो ऽसि भक्तो ऽसि त्वं जनार्दने
तत्राश्चर्याण्यनेकानि द्रष्टुकामस्तवाज्ञया
राज्यशासनजं भारं दुर्वहं यच्च भूमिपैः
तच्छत्वा वचनं राज्ञो वामदेवो ऽब्रवीदिदम्
यत्क्लेशात्पितरं प्रेम्णा विमोचयति सर्वदा
तस्य भागीरथीस्नानमहन्यहनि जायते
नो शुद्धिस्तस्य पुत्रस्य इतीत्थं वैदिकी श्रुतिः
हरिप्रसादात्ते जातो वंशे पुत्रः स पुण्यकृत्
ययौ शीघ्रगतिः श्रीमान्सदागतिरिव स्वयम्
सर्वाश्चर्याणि राजेन्द्रः सरांस्युपवनानि च
भ्रामयित्वा गिरिं श्वेतं गन्धमादनमेव च