स्वकर्मस्था विकर्मस्था नीता मधुभिदः पदम्
श्वपचो ऽपि महीपाल विष्णुभक्तो द्विजाधिकः
दुर्लभा भूप राजानो विष्णुभक्ता महीतले
यो न राजा रहेर्भक्तो देवेष्वन्येषु भक्तिमान्
एवं व्यतिक्रमस्तस्य नृपतेर्भवति ध्रुवम्
तत्त्वया न्यायविहितं कृतं विष्णोः प्रपूजनम्
इत्येवं भाषमाणं तु वामदेवं नृपोत्तमः
क्षामये त्वा द्विजश्रेष्ठ नाहमेतादृशो विभो
न विप्रेभ्यो ऽधिका देवा भवन्तीह कदाचन
द्वेष्यो भवति तै रुष्टैः सत्यमेतन्मयेरितम्
नादेयं विद्यते राजन्गृहायातस्य ते ऽधुना
पटहं वासरे विष्णोः प्रजाभोजनवारणम्
प्राप्तमेव मया सर्वं त्वदङ्घ्रियुगलेक्षणात्
तं पृच्छामि द्विजाग्र्यं त्वां सर्वसंदेहभञ्जनम्
या विलोकयते दृष्ट्या मां सदा मन्मथाधिकम्
तत्र तत्र निधानानि प्रकाशयति मेदिनी
सदा भाति मुनिश्रेष्ठ शारदेन्दुप्रभा यथा
अन्नं पचति यत्स्वल्पं तस्मिन्भुञ्जन्ति कोटयः
नावज्ञा क्रियते ब्रह्मन् वाक्येनापि प्रसूप्तया
अहमेव धरापृष्ठे पुत्री द्विजवरोत्तम
एकद्वीपपतिश्चाहं विदितो धरणीतले
मदर्थे येन विप्रेन्द्र समानीता नृपात्मजा
अथ तेनाधिपतिना रूपद्रविणशालिना
यो गत्वा प्रमदाराज्यं जित्वा ताः प्रमदा रणे
प्रददौ मयि ताः सर्वाः प्रणम्य च पुनः पुनः
तानि मे प्रददौ पुत्रो जनन्या तूपवर्णितः
पुनरायाति शर्वर्यां मत्पादाभ्यङ्गकारणात्
प्रबोधयन्प्रेष्यजनान्निद्रया संकुलेन्द्रियान्
अप्रमेयं मम सुखं वशगा हि प्रिया गृहे
वर्तते हि जनः सर्वो ममाज्ञापालकः क्षितौ