प्रजा अरक्षन्नृपतिः सधर्म्मो ऽपि व्रजत्यधः
विमुक्तभावो ऽहमिति मेरुशृङ्गे रविर्यथा
दोषापतिसमप्रख्यं निर्देषं क्षितिभूषणम्
धरामादृत्य भूपालो दत्वा तं दक्षिणं करम्
अशोकपल्लवाकारं वज्राङ्कुशविरोहणम्
साधयानो ययौ देशान्काननं स नृपोत्तमः
पदातयो निपेतुस्ते मूर्च्छिताः क्षितिमण्डले
योजनानां समुत्तीर्य शतमष्टोत्तरं नृप
अशोकबकुलोपेतं पुन्नागसरलावृतम्
नारिकेलैस्तथा तालैः केतकैः सिंदुवारकैः
क्रमुकैर्दाडिमैश्चैव धात्रीवृक्षैः सहस्रशः
परिपक्वफलैर्नम्रैः खगारूढैः समावृतम्
पश्यमानो मुनिं राजा ददर्श हुतभुक्प्रभम्
अवरुह्य हयाद्दृष्ट्वा प्रणनाम च सादरम्
उपविश्यासने कौशे प्राह संहृष्टया गिरा
दृष्ट्वा तव पदांभोजं सम्यग्ध्यानपरस्य च
संपृष्ट्वा कुशलं प्राह वामदेवो मुदान्वितः
ममाश्रमो महाभाग पुण्यो जातो धरातले
येन वैवस्वतो माग्रो भग्नो निर्जित्य वै यमम्
उपोषयित्वा नृपतेद्वादशीं पापनाशिनीम्
स्वकर्मस्था विकर्मस्था नीता मधुभिदः पदम्
श्वपचो ऽपि महीपाल विष्णुभक्तो द्विजाधिकः
दुर्लभा भूप राजानो विष्णुभक्ता महीतले
यो न राजा रहेर्भक्तो देवेष्वन्येषु भक्तिमान्
एवं व्यतिक्रमस्तस्य नृपतेर्भवति ध्रुवम्
तत्त्वया न्यायविहितं कृतं विष्णोः प्रपूजनम्
इत्येवं भाषमाणं तु वामदेवं नृपोत्तमः
क्षामये त्वा द्विजश्रेष्ठ नाहमेतादृशो विभो
न विप्रेभ्यो ऽधिका देवा भवन्तीह कदाचन
द्वेष्यो भवति तै रुष्टैः सत्यमेतन्मयेरितम्