निर्देषमृगयूथानां न युक्तं सूदनं तव
कुर्वन्नपि वृथा धर्मान्यो हिंसामनुवर्तते
षड्विधं नृप ते प्रोक्तं विद्वद्भिर्जीवघातनम्
हिं सया संयुतं धर्ममधर्मं च विदुर्बुधाः
धर्मं समाश्रयमन्सम्यक्संजातपलितः पिता
मृगशीला हि राजानो विनष्टाः शतशो न-प
दया वरा मृगे रीज्ञां धर्मिणामपि दृश्यते
एवं ब्रुवाणां तां भार्यां नृपो वचनमब्रवीत्
पर्य्यटिष्ये धनुष्पाणिः कुर्वन्कण्टकशोधनम्
श्वापदेभ्यश्च दस्युभ्यः प्रजा रक्ष्या महीभृता
प्रजा अरक्षन्नृपतिः सधर्म्मो ऽपि व्रजत्यधः
विमुक्तभावो ऽहमिति मेरुशृङ्गे रविर्यथा
दोषापतिसमप्रख्यं निर्देषं क्षितिभूषणम्
धरामादृत्य भूपालो दत्वा तं दक्षिणं करम्
अशोकपल्लवाकारं वज्राङ्कुशविरोहणम्
साधयानो ययौ देशान्काननं स नृपोत्तमः
पदातयो निपेतुस्ते मूर्च्छिताः क्षितिमण्डले
योजनानां समुत्तीर्य शतमष्टोत्तरं नृप
अशोकबकुलोपेतं पुन्नागसरलावृतम्
नारिकेलैस्तथा तालैः केतकैः सिंदुवारकैः
क्रमुकैर्दाडिमैश्चैव धात्रीवृक्षैः सहस्रशः
परिपक्वफलैर्नम्रैः खगारूढैः समावृतम्
पश्यमानो मुनिं राजा ददर्श हुतभुक्प्रभम्
अवरुह्य हयाद्दृष्ट्वा प्रणनाम च सादरम्
उपविश्यासने कौशे प्राह संहृष्टया गिरा
दृष्ट्वा तव पदांभोजं सम्यग्ध्यानपरस्य च
संपृष्ट्वा कुशलं प्राह वामदेवो मुदान्वितः
ममाश्रमो महाभाग पुण्यो जातो धरातले
येन वैवस्वतो माग्रो भग्नो निर्जित्य वै यमम्
उपोषयित्वा नृपतेद्वादशीं पापनाशिनीम्