गुर्वीं राज्यधुरं तात त्वदीयामुद्धराम्यहम्
पितुर्वाक्यमकुर्वाणः कुर्वन्धर्मानधो व्रजेत्
एवमुक्ते तु वचने राजा हृष्टो बभूव ह
धर्माङ्गदो ऽपि दृष्टात्मा प्रजा आहूय चाब्रवीत्
पितुर्वाक्यं मया कार्यं सर्वथा धर्ममिच्छता
मयि दण्डधरे शास्ता न यमो भवति क्वचित्
ब्रह्मार्पणप्रयोगेण यजनीयो जनार्दनः
येन वो ह्यक्षया लोका भवेयुर्नात्र संशयः
ब्रह्मार्पणक्रियायुक्ता भवन्तु ज्ञानकोविदाः
विशेषो हि मयाख्यातो भवतां ब्रह्मसंस्थितिः
यदुपोष्यं हरिदिनं तदवश्यमिति स्थितिः
न दिवा न च शर्वर्यां शेते धर्मां गदः सदा
पटहो रटते नित्यं मृगारिरिपुमस्तके
त्रिविधेषु च कार्येषु देवेशश्चिन्त्यतां हरिः
सूर्ये यो हि कृशाकाशे विसर्गे जगतां पतिः
स्वजातिविहितो ऽप्येवं सन्मार्गे चैव माधवः
विनियोगस्तु तस्यैव सर्वकर्मसु युज्यते
एवं धर्ममवाप्याथ पितां धर्माङ्गदस्य हि
उवाच भार्यां संहृष्टः स्थितां लक्ष्मीमिवापराम्
उभयोर्जनितः पुत्रः शशाङ्कधवलः क्षितौ
सो ऽस्माभिरधिकं प्राप्तो मोक्षः सत्पुत्रसंभवः
प्रतापिनि वरारोहे पितुर्मोक्षो गृहे ध्रुवम्
पिता भवति चार्वङ्गि सत्कर्मकरणैः शुभैः
सत्पुत्रः पितुरादाय भारमुद्वहते तु यः
स्वेच्छाचरश्चाथ विशालनेत्रे विमुक्तपापो जनरक्षणाय
सत्यमुक्तं त्वया राजन्पुत्रसौख्यात्परं सुखम्
तुल्यं भवति लोके ऽस्मिन् विष्ण्वाख्यस्य परस्य हि
मार्गी हिंसां परित्यज्य यज्ञैरिष्ट्वा जनार्दनम्
एतन्न्याय्यं भवति भो न न्याय्यो मृगनिग्रहः
तथा विषयसेवा हि पितॄणां पुत्रिणां विदुः