इत्येवं जल्पितं यैस्तु तान्निरस्य समन्ततः
संबोधयित्वा बहुशः प्रजानां सुखहेतवे
शास्त्रदृष्ट्या तु विदुषो मूर्खान्दण्डनपूर्वकम्
तेन मे न सुखं किञ्चिदवलीढं धरातले
स्वेभ्यो वापि परेभ्यो वा या रक्षेच्च प्रजा नृपः
सो ऽहं प्रजाकृते सौम्य संस्थितो नात्मनः क्वचित्
न पानद्यूतजं पुत्र कामये ऽहं कदाचन
त्वत्प्रसादादहं पुत्र मृगयाव्याजतो ऽधुना
भोक्तुकामः प्रियान्कामांस्त्वयि भारं निवेश्य च
कृते तव महाकीर्तिरकृते नरकस्थितिः
गुर्वीं राज्यधुरं तात त्वदीयामुद्धराम्यहम्
पितुर्वाक्यमकुर्वाणः कुर्वन्धर्मानधो व्रजेत्
एवमुक्ते तु वचने राजा हृष्टो बभूव ह
धर्माङ्गदो ऽपि दृष्टात्मा प्रजा आहूय चाब्रवीत्
पितुर्वाक्यं मया कार्यं सर्वथा धर्ममिच्छता
मयि दण्डधरे शास्ता न यमो भवति क्वचित्
ब्रह्मार्पणप्रयोगेण यजनीयो जनार्दनः
येन वो ह्यक्षया लोका भवेयुर्नात्र संशयः
ब्रह्मार्पणक्रियायुक्ता भवन्तु ज्ञानकोविदाः
विशेषो हि मयाख्यातो भवतां ब्रह्मसंस्थितिः
यदुपोष्यं हरिदिनं तदवश्यमिति स्थितिः
न दिवा न च शर्वर्यां शेते धर्मां गदः सदा
पटहो रटते नित्यं मृगारिरिपुमस्तके
त्रिविधेषु च कार्येषु देवेशश्चिन्त्यतां हरिः
सूर्ये यो हि कृशाकाशे विसर्गे जगतां पतिः
स्वजातिविहितो ऽप्येवं सन्मार्गे चैव माधवः
विनियोगस्तु तस्यैव सर्वकर्मसु युज्यते
एवं धर्ममवाप्याथ पितां धर्माङ्गदस्य हि
उवाच भार्यां संहृष्टः स्थितां लक्ष्मीमिवापराम्
उभयोर्जनितः पुत्रः शशाङ्कधवलः क्षितौ