कूर्मास्थिघर्षता येन पावको जनितो महान्
न देवैर्दानवैर्वापि दृष्टो यो हि द्विजोत्तमाः
केयूरघर्षणे येन कृतं देवस्य चक्रिणः
रत्नानां मन्दिरं ह्येष बहुधातुसमन्वितः
सुराङ्गनानां रतिवर्द्धनो यो रत्नौषधीनां प्रभवो गिरिर्महान्
दैर्घ्येण तावन्ति हि योजनानि त्रैलोक्ययष्टीव समुच्छ्रितो ऽसौ
यस्मिन्गतः कश्य पनन्दनो वै विरश्मितामेति विनष्टतेजाः
सूर्यतेजोनिहन्तारं मन्दरं तेजसा स्वयम्
नीलकान्तिमये दिव्ये सप्तयोजनविरतृते
दशहस्त प्रमाणं हि विस्तरादूर्द्ध्वसंख्यया
तस्मिन्बाला द्विजश्रेष्ठाश्चक्रे संगीतमुत्तमम्
समीपवर्तिनी तस्य भूत्वा लिङ्गस्य भामिनी
तस्मिन्प्रवृत्ते राजेन्द्रगीते मन्मथवर्द्धने
न च दैवं न चादैवं गीतं तादृग्बभूव ह
मोहिनीमुखनिर्गीतं गीतं सत्वविमोहनम्
कामातुरो भोक्तुमनाश्चचाल तां मोहिनीं पार्वतिदृष्टिलज्जः
संपूज्य बहुशो देवं पीतांबरधरं हरम्
कृत्वा शून्यं यमपथं जित्वा वैवस्वतं यमम्
आहूय तनयं काले धर्माङ्गदमभाषत
परिपालय वीर्येण स्वधर्मे कृतनिश्चयः
तस्य धर्मस्तथा कीर्तिर्विनस्यति न संशयः
अवश्य पातकी सो ऽपि विज्ञेयो भुवनत्रये
मातुरुच्चारवज्जातो द्विजिह्वो विषवर्जितः
प्रकाशयति सर्वत्र स्वकरैरिव भास्करः
स पुत्रो नरकं याति यावदाभूतसंप्लवम्
स याति देव सायुज्यं स्तूयमानो दिवि स्थितैः
न भुक्तं नैव सुप्तं तु स्वेच्छया पालने स्थितः
विष्णुवासरभोक्तॄणां निग्रहे कृतबुद्धिना
विरिञ्चिमार्गगाश्चान्ये पार्वत्याश्च स्थिताः परे
बालो युवा वा वृद्धो वा गुर्विणी वा कुमारिका