एवमुक्ते तु वचने त्वया वाच्यो वरानने
नोपवासस्त्वया कार्यो जातु वै हरिवासरे
सुमुग्धां यौवनोपेतां स्वभार्यां यो न सेवते
त्रिरात्रमपविद्धाहं त्वया भूप उपोषणात्
श्राद्धकाले तु संप्राप्ते उपाविष्टैर्द्विजैः किल
एवं संबोध्यमानो ऽपि यदा राजा वचस्तव
यदि न त्यजसे राजन्नुपवासं हरेर्दिने
धर्माङ्गदस्य राजेन्द्र ममोत्संगेक्षिप स्वयम्
धर्मक्षीणो भवान् गन्ता नरके नात्र संशयः
संगृह्य वाक्यं वसुधामराणां सम्भोक्ष्यते माधववासंरे ऽसौ
लिपिप्रमाणं नरकाधिवासी भविष्यते साधु कृतं त्वया हि
निःशेषामरपूज्यं व्रजति पदं पद्मनाभस्य
उवाच नाम मेदेहि येन गच्छामि मन्दिरम्
नाम पापहरं प्रोक्तं तत्कुरुष्व कुशध्वज
मोहिनी नाम ते देवि सगुणं हि भविष्यति
यदि प्राप्नोति वै सुभ्रु त्वत्संपर्कं सुखावहम्
वीक्ष्यमाणामरैर्मार्गे प्रतस्थे मन्दराचलम्
यस्य संवेष्टने नागो वासुकिर्नहि पूर्यते
षड्लक्षयोजनः सिंधुर्यस्यासौ गह्वरो भवेत्
पतता येन राजेन्द्र सिंधोर्गुह्यं प्रदर्शितम्
कूर्मास्थिघर्षता येन पावको जनितो महान्
न देवैर्दानवैर्वापि दृष्टो यो हि द्विजोत्तमाः
केयूरघर्षणे येन कृतं देवस्य चक्रिणः
रत्नानां मन्दिरं ह्येष बहुधातुसमन्वितः
सुराङ्गनानां रतिवर्द्धनो यो रत्नौषधीनां प्रभवो गिरिर्महान्
दैर्घ्येण तावन्ति हि योजनानि त्रैलोक्ययष्टीव समुच्छ्रितो ऽसौ
यस्मिन्गतः कश्य पनन्दनो वै विरश्मितामेति विनष्टतेजाः
सूर्यतेजोनिहन्तारं मन्दरं तेजसा स्वयम्
नीलकान्तिमये दिव्ये सप्तयोजनविरतृते
दशहस्त प्रमाणं हि विस्तरादूर्द्ध्वसंख्यया