नागनासोरु सुभगे मत्तमातङ्गगामिनि
तन्मया सुगृहीतं तु कृतं ज्ञानाङ्कुशेन हि
सत्यमेतद्विशालाक्षि तव रूपं विमोहनम्
यन्निमित्तं मया सृष्टा तत्साधय वरानने
यस्य सन्ध्यावली भार्या तव रूपोपमा शुभे
दशनागायु तबलः प्रतापेन रविर्यथा
तेजसा वह्निवद्द्वीप्तः क्रोधे वैवस्वतोपमः
सौम्यत्वे शशितुल्यस्तु रूपवान् मन्मथो यथा
पित्रा भुक्तं समस्तैकं जंबूद्वीपं वरानने
पित्रोस्तु व्रीडया येन न ज्ञातं प्रमदासुखम्
यो न वाक्याद्विचलते सहैव हि पितुर्गृहे
शतानि कनकाभासे त्वविशेषेण पश्यति
समीपं गच्छ चार्वङ्गि मन्दरे पर्वतोत्तमे
तव गीतेन चार्वङ्गि मोहितो ऽश्वं विहाय चकत
तत्र देवि त्वयावाच्यं मिलित्वा भूभुजा त्विह
यद्ब्रवीमि ह्यहं नाथ तत्कार्यं हि त्वया ध्रुवम्
यतस्तं शपथैर्धृत्वा दक्षिणेन करेण वै
सुरते तव चार्वङ्गि यदा मुग्धो हि लक्ष्यते
यस्त्वया शपथो राजन्कृतो मद्वाक्यपालने
एवमुक्ते त्वया मुग्धो राजा वै सत्यगौरवात्
एवमुक्ते तु वचने त्वया वाच्यो वरानने
नोपवासस्त्वया कार्यो जातु वै हरिवासरे
सुमुग्धां यौवनोपेतां स्वभार्यां यो न सेवते
त्रिरात्रमपविद्धाहं त्वया भूप उपोषणात्
श्राद्धकाले तु संप्राप्ते उपाविष्टैर्द्विजैः किल
एवं संबोध्यमानो ऽपि यदा राजा वचस्तव
यदि न त्यजसे राजन्नुपवासं हरेर्दिने
धर्माङ्गदस्य राजेन्द्र ममोत्संगेक्षिप स्वयम्
धर्मक्षीणो भवान् गन्ता नरके नात्र संशयः
संगृह्य वाक्यं वसुधामराणां सम्भोक्ष्यते माधववासंरे ऽसौ