स नास्ति त्रिषु लोकेषु यः पुमान्मम दर्शनात्
आत्मस्तुतिर्न कर्तव्या केनचिच्छुभमिच्छता
तथापि स्तवनं ब्रह्मन् कर्तव्यं कार्यहेतुना
तमादिश जगन्नाथ क्षोभयिष्ये न संशयः
किं पुनश्चेतनोपेतः श्वासोच्छासी नरस्त्विति
उन्मादकरणं नॄणां दुश्चरव्रतनाशनम्
भ्रूचापाक्षेपयुक्ताः श्रवणपथगता नीलपक्ष्माण एते यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति
भ्रूक्षेपविस्मितकटाक्षनिरीक्षनिरीक्षितानि कोपप्रसादहसितानि कुतः शशाङ्के
स्मृता च दृष्टा युवती नरेण विमोहयेदेव सुराधिका हि
तमादिशजगन्नाथ त्रैलोक्यं मोहयाम्यहम्
नागनासोरु सुभगे मत्तमातङ्गगामिनि
तन्मया सुगृहीतं तु कृतं ज्ञानाङ्कुशेन हि
सत्यमेतद्विशालाक्षि तव रूपं विमोहनम्
यन्निमित्तं मया सृष्टा तत्साधय वरानने
यस्य सन्ध्यावली भार्या तव रूपोपमा शुभे
दशनागायु तबलः प्रतापेन रविर्यथा
तेजसा वह्निवद्द्वीप्तः क्रोधे वैवस्वतोपमः
सौम्यत्वे शशितुल्यस्तु रूपवान् मन्मथो यथा
पित्रा भुक्तं समस्तैकं जंबूद्वीपं वरानने
पित्रोस्तु व्रीडया येन न ज्ञातं प्रमदासुखम्
यो न वाक्याद्विचलते सहैव हि पितुर्गृहे
शतानि कनकाभासे त्वविशेषेण पश्यति
समीपं गच्छ चार्वङ्गि मन्दरे पर्वतोत्तमे
तव गीतेन चार्वङ्गि मोहितो ऽश्वं विहाय चकत
तत्र देवि त्वयावाच्यं मिलित्वा भूभुजा त्विह
यद्ब्रवीमि ह्यहं नाथ तत्कार्यं हि त्वया ध्रुवम्
यतस्तं शपथैर्धृत्वा दक्षिणेन करेण वै
सुरते तव चार्वङ्गि यदा मुग्धो हि लक्ष्यते
यस्त्वया शपथो राजन्कृतो मद्वाक्यपालने
एवमुक्ते त्वया मुग्धो राजा वै सत्यगौरवात्