मुच्यते प्रेतलोकात्स स्वर्गलोके महीयते
आगच्छन्तु मे पितरो गृह्णन्त्वेताआजाञ्जलीन्
गोशृङ्गमात्रमुद्धृत्य जलमध्ये विनिः क्षिपेत्
पितॄणां स्थानमाकाशं दक्षिणादिक् तथैव च
तस्मादस्य जलं देयं पितॄणां हितमिच्छता
मध्ययोरप्युभाभ्यां च पवित्रं सर्वदा जलम्
भाण्डस्थं धरणीस्थं वा पवित्रं सर्वदा जलम्
असंस्कृतप्रमीतानां स्थले दद्याद्विचक्षणः
उभाभ्यां तर्पणे दद्यादेष धर्मो व्यवस्थितः
शृणुष्व धैर्यमास्थाय रौद्रा ये नरका यतः
पच्यन्ते येषु तान्वक्ष्ये भयङ्करफलप्रदान्
कुम्भघीपाको निरुच्छ्वासः कालसूत्रः प्रमर्दनः
मूषावस्था वसाकूपस्तथा वैतरणी नदी
तत्पशूलं तत्पशिला शाल्मलीद्रुम एव च
स्वमांसभोजनं चैव वह्निज्वालानिवेशनम्
क्षारोदकं चोष्णतोयं तत्पायः पिण्डभभणम्
तथा पाशाणवर्णं च कृमिभोजनमेव च
पुरीषलेपनं चैव पुरीषस्य च भोजनम्
धूमपानं पाशबन्धं नानाशूलानुलेपनम्
बहूनि काष्ठयन्त्राणि कषणं छेदनं तथा
गजदन्तप्रहरणं नानासर्पैश्च दंशनम्
घोरक्षाराम्बुपानं च तथा लवणभक्षणम्
क्षाराम्बुपूर्णरन्ध्राणां प्रवेशं मांसभोजनम्
वृक्षाग्रात्पातनञ्चैव जलान्तर्मज्जनं तथा
पिपीलिकादंशनं च वृश्चिकैश्चापि पीडनम्
कर्द्दमे शयनं चैव दुर्गन्धपरिपूरणम्
अत्युष्णतैलपानं च महाकटुनिषेवणम्
अत्युष्णशीतस्नानं च तथा दशनशीर्णनम्
एवमाद्यामहाभाग यातनाः कोटिकोटिशः
एतेषु यस्य यत्प्रात्पं पापिनः क्षितिरक्षक