चिन्तयेद्वीक्षयेद्वापि जननीं वा सुतामपि
स याति नरकं घोरं संचिन्त्य श्वपचीमपि
तस्य जन्मकृतं पुण्यं वृथा भवति नान्यथा
पुण्यस्य संक्षयात्पापी पाषाणाखुर्भवेद्ध्रुवम्
जनन्या अपि पादौ तु नादेयौ द्वादशाब्दिकैः
षष्ट्यतीतां सुतो ऽभ्यङ्गे नियुञ्जीत विचक्षणः
उभयोः पतनं प्रोक्तं रौरवे ऽङ्गारसंचये
वधूहस्तेन यः पापः पादशौचं करोति हि
सूचीमुखैः कृष्णवक्त्रोर्भुज्यते कल्पसंस्थितिम्
साभिलाषेण मनसा तत्क्षणात्पतते नरः
यदिदं वर्तुलं वक्त्रं सोन्नतं दृश्यते शुभम्
वसा मेदो ऽथ नयने सोज्वले स्त्रीषु संस्थिते
निम्नांशतां दर्शयति त्रिवली जठरस्थिता
मूत्रद्वारमिदं गुह्यं यत्र मुग्धं जगत्त्रयम्
भस्त्रावर्गाधिकं क्षिप्तं मांसं जघनवर्त्मनि
शुक्रास्थिपूरितं मांसैः कथं सुन्दरतां व्रजेत्
विष्ठामूत्रमलैः पुष्टे को देहे रज्यते नरः
धैर्यं कृत्वा व नारीं तामुवाच गजगामिनीम्
तथा भूतासि चार्वङ्गि मानसोन्मादकारिणी
पश्य मूच्छान्वतनाथ जगत्स्थावरजङ्गमम्
स नास्ति त्रिषु लोकेषु यः पुमान्मम दर्शनात्
आत्मस्तुतिर्न कर्तव्या केनचिच्छुभमिच्छता
तथापि स्तवनं ब्रह्मन् कर्तव्यं कार्यहेतुना
तमादिश जगन्नाथ क्षोभयिष्ये न संशयः
किं पुनश्चेतनोपेतः श्वासोच्छासी नरस्त्विति
उन्मादकरणं नॄणां दुश्चरव्रतनाशनम्
भ्रूचापाक्षेपयुक्ताः श्रवणपथगता नीलपक्ष्माण एते यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति
भ्रूक्षेपविस्मितकटाक्षनिरीक्षनिरीक्षितानि कोपप्रसादहसितानि कुतः शशाङ्के
स्मृता च दृष्टा युवती नरेण विमोहयेदेव सुराधिका हि
तमादिशजगन्नाथ त्रैलोक्यं मोहयाम्यहम्