कथं शासति दुर्मेधास्तस्य वासरसेविनम्
तदस्माकं कृतं मानं मे तत्त्वं नावबुध्यसे
कृत्स्नायासेन संयुक्तः स तैर्निग्राह्यते पुनः
स्वामिप्रसादात्सिद्धास्ते विनिन्युर्व्वै नियोगिनम्
कथं संयमिता तेषां बाल्याद्भास्करनन्दन
करोमि तव साहाय्यं हरिभक्तैर्न भास्करे
सर्वेषामेव देवानामादिस्तुपुरुषोत्तमः
व्याजेनापि कृता यैस्तु द्वादशी पक्षयोर्द्वयोः
विपर्ययो ब्रह्मपदात्सुपुण्यात्कृतेव मार्गे सह विष्णुभक्तैः
नाहं गच्छामि योगान्तं पुनरेव जगत्पते
तमेकं देवताश्रेष्ठं संप्राप्ते हरिवासरे
स मे शत्रुर्महान्देव तेन लुप्तः पटो मम
कृतकृत्यो भविष्यामि गयापिण्डप्रदो यथा
उपोषितः स्तुतोवापि न नियम्या मया हि ते
सौतिरुवाच
र्चितयामास देवेशो विरिञ्चिः कुशलाञ्छनः
भूतत्रासनमात्रं तु रूपं स जगृहे विभुः
सर्वयोषिद्वरा देवीमनसा निर्भिता बभौ
दृष्ट्वा पितामहस्तां तु रूपद्रविणसंयुताम्
प्रत्यवायभयाद्ब्रह्या चक्षुषी संन्यमीलयत्
चिन्तयेद्वीक्षयेद्वापि जननीं वा सुतामपि
स याति नरकं घोरं संचिन्त्य श्वपचीमपि
तस्य जन्मकृतं पुण्यं वृथा भवति नान्यथा
पुण्यस्य संक्षयात्पापी पाषाणाखुर्भवेद्ध्रुवम्
जनन्या अपि पादौ तु नादेयौ द्वादशाब्दिकैः
षष्ट्यतीतां सुतो ऽभ्यङ्गे नियुञ्जीत विचक्षणः
उभयोः पतनं प्रोक्तं रौरवे ऽङ्गारसंचये
वधूहस्तेन यः पापः पादशौचं करोति हि
सूचीमुखैः कृष्णवक्त्रोर्भुज्यते कल्पसंस्थितिम्
साभिलाषेण मनसा तत्क्षणात्पतते नरः