योगेन संप्रणष्टो वा भृगुपातेन वा विधे
गतिं मतिमतां श्रेष्ठ सत्यमेतदुदीरितम्
प्रयाति लोके धरणीधरस्य विदुष्टकर्मापि मनुष्यजन्मा
विज्ञप्ति मात्राभयदाप्तिकालं कुरुष्व सर्गस्थितिनासहेतोः
नियन्त्रिताः शृङ्खलरज्जुबन्धनैः समीपगा मे वशगा भवेयुः
विमुच्य कुंभीं सकलो जनौघः प्रयाति तद्धाम परात्परस्य
अच्छिद्रैर्गम्यनानैश्च नरैस्त्रिभुवनार्चित
यो न पूर्यति लोकैघैः सर्वसत्वसरोरुहैः
स्वकर्मस्था विकर्मस्थाः शुचयो ऽशुचयो ऽपि वा
सो ऽस्माकं हि महान् शत्रुर्भवतां च विशेषतः
तेन वर्षसहस्रेण शासितं क्षितिमण्डलम्
आरोपयित्वा गरुडे कृत्वा रूपं चतुर्भुजम्
यदि स्थास्यति देवेश माधव्यां माधवप्रियः
एष दण्डः पटो ह्येष तव पद्भ्यां विसर्जितः
रुक्माङ्गदेन देवेश धन्या सा स धृतो यया
किमपत्येन जातेन मातुः क्लेशकरेण हि
वृथाशूला हि जननी जाता देव कुपुत्रिणी
यः पितुर्नोद्धरेत्पक्षं विद्यया वा बलेन वा
धर्मे चार्थे च कामे च प्रतीपो यो भवेत्सुतः
एका हि वीरसूरेव विरञ्चे नात्र संशयः
नेदं व्यवस्थितं देव क्षितौ केनापि भूभुजा
प्रवादमानं पटहं सुघोरं प्रलोपमानं ममविश्ममार्गम्
सद्गुणेषु च संतापः स तापो मरणान्तिकः
तमुपोष्य कथं सौरे न गच्छति नरस्त्विति
दशाश्वमेधी पुनरेति जन्म कष्णप्रणामी न पुनर्भवाय
जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम्
अन्नमश्नन्सुरापक्वं मरणे यो हरिं स्मरेत्
स याति विष्णुसायुज्यं विमुक्तो भवबन्धनैः
यस्मिन्संगीयते सो ऽपि चिन्त्यते पुरुषोत्तमः
गङ्गांभः पूतपुण्यत्वे स नरः समतां व्रजेत्