मनुजाः पितृभिः सार्द्धं तथैव च पितामहैः
तथा मातामहा यान्ति मातुर्ये जनकादयः
एतद्दुःखं पुनर्देव मम मर्मविभेदनम्
पितॄणां बीजतो यस्माद्धात्र्या कुक्षौ धृतो यतः
ततो ऽन्यस्य कृतं ब्रह्मन्बीजं धात्रीसमुद्भवम्
न भार्याया भवेद्वीजं न भार्या कुक्षिधारिणी
जामातुः पुण्यमाहात्म्यत्तिन मे शिरसो रुजा
एकादश्युपवासी यः स मां त्यक्त्वा व्रजेद्धरिम्
त्यक्त्वा तु मामकं मार्गं प्रयाति हरिमन्दिरम्
न तीर्थैर्नापि दानैर्वा न व्रतैर्विष्णुवर्जितैः
योगेन संप्रणष्टो वा भृगुपातेन वा विधे
गतिं मतिमतां श्रेष्ठ सत्यमेतदुदीरितम्
प्रयाति लोके धरणीधरस्य विदुष्टकर्मापि मनुष्यजन्मा
विज्ञप्ति मात्राभयदाप्तिकालं कुरुष्व सर्गस्थितिनासहेतोः
नियन्त्रिताः शृङ्खलरज्जुबन्धनैः समीपगा मे वशगा भवेयुः
विमुच्य कुंभीं सकलो जनौघः प्रयाति तद्धाम परात्परस्य
अच्छिद्रैर्गम्यनानैश्च नरैस्त्रिभुवनार्चित
यो न पूर्यति लोकैघैः सर्वसत्वसरोरुहैः
स्वकर्मस्था विकर्मस्थाः शुचयो ऽशुचयो ऽपि वा
सो ऽस्माकं हि महान् शत्रुर्भवतां च विशेषतः
तेन वर्षसहस्रेण शासितं क्षितिमण्डलम्
आरोपयित्वा गरुडे कृत्वा रूपं चतुर्भुजम्
यदि स्थास्यति देवेश माधव्यां माधवप्रियः
एष दण्डः पटो ह्येष तव पद्भ्यां विसर्जितः
रुक्माङ्गदेन देवेश धन्या सा स धृतो यया
किमपत्येन जातेन मातुः क्लेशकरेण हि
वृथाशूला हि जननी जाता देव कुपुत्रिणी
यः पितुर्नोद्धरेत्पक्षं विद्यया वा बलेन वा
धर्मे चार्थे च कामे च प्रतीपो यो भवेत्सुतः
एका हि वीरसूरेव विरञ्चे नात्र संशयः