तेषां मध्ये ऽविशत्सौरिः सव्रीडेव वधूर्यथा
ते प्रविष्टं यमं दृष्ट्वा सकायस्थं सनारदम्
संप्राप्तो हि लोककरं द्रष्टुं देवं पितामहम्
सो ऽयमभ्यागतः कस्मात्कञ्चित्क्षेमं दिवौकसाम्
लेखकः समनुप्राप्तो दैन्येन महतान्वितः
यन्न दृष्टं श्रुन्त वापि तदिहैव प्रदृश्यते
निपपाताग्रतो विप्रा ब्रह्मणो रविनन्दनः
परिभूतो ऽस्मि देवेश यन्मार्जितपटः कृतः
एवं ब्रुवन्स निश्चेष्टो बभूव द्विजसंत्तमाः
योर्ऽथं रोदयते लोकान्सर्वान्स्थावरज गमान्
अथवा सत्यगाथेयं लौकिकी प्रतिभाति नः
नहि दुष्कृतकर्मा हि नरः प्राप्नोति शोभनम्
लोकानां समचित्तानां मतं ज्ञात्वा हि वेधसः
भुजाभ्यां साधुपीनाभ्यां लोकमूर्तिरुदारधीः
सकायस्थमुवाचेदं व्योममूर्तिं रवेः सुतम्
केनापमार्जितो देवपटो लोकपटस्तव
अपनेष्यति मार्तण्डे दुःखं हृदयसंस्थितम्
विलोक्य वक्त्रं कुशकेतुसूनोः सगद्गदं मन्दमुदीरयन्वचः
मरणादधिकं देव यत्प्रतापस्य खण्डनम्
अन्धकूपे निपतति स चाशु नरके ध्रुवम्
प्रभोर्वित्तं समश्नाति स भवेत्काष्ठकीटकः
नियोगी नरकं याति यावत्कल्पशतत्रयम्
भवेद्वेश्मनि मन्दात्मा आखुः कल्पशतत्रयम्
भृत्यान्वै कर्मकरणे राज्ञो मार्जारतां व्रजेत्
पुण्येन पुण्यकर्तारं पापं पापेन कर्मणा
कल्पादौ वर्तमानस्य यावद्यावद्दिनं तव
कर्तुं रुक्माङ्गदेनाद्य पराभूतो हि भूभुजा
न भुङ्क्ते वासरे विष्णोः सर्वपापप्रणाशने
विहाय देवपूजां च तीर्थस्नानादिकस्त्रियाम्
त्यक्त्वा स्वाध्यायहोमांश्च कृत्वा पापानि भूरिशः