व्याजेनापि मुनुश्रेष्ठ द्वादश्यां समुपोषिताः
द्वादशीसेवनाल्लोकाः प्रायान्ति हरिमन्दिरम्
कृत हि नरकाः शून्या लोकाश्चापि दिवौकसाम्
एकादश्युपवासस्य माहात्म्येन द्विजोत्तम
समुपोष्य दिनं विष्णोः प्रयान्ति हरिमन्दिरम्
नेत्रहीनः कर्णहीनः संध्याहीनो द्विजो यथा
त्यक्तकामस्त्वहं ब्रह्मंल्लोकपालत्वमीदृशम्
निर्व्यापारो नियोगी तु नियोगे यस्तु तिष्ठति
एवमुक्त्वा यमो विप्रा नारदेन समन्वितः
स ददर्श समासीनं मूर्तामूरतजनावृतम्
स्वभवं भूतनिलयमोङ्काराख्यमकल्मषम्
उपास्यमानं विविधैर्लोकपालैर्दिगीश्वरैः
मूर्तिमद्भिः समुद्रैश्य नदीभिश्च सरोवरैः
वापीकूपतडागाद्यैर्मूर्तिमद्भिश्च पर्वतैः
कलाकाष्ठानिमेषैश्च ऋतुभिश्चायनैर्युगैः
ऋक्षैर्योगैश्च करणैः पौर्णमासेंदुसंक्षयैः
सत्यानृतैश्च देवेशो वेष्टितो धर्मपावकः
सत्त्वेन रजसा चैव तमसा च पितामहः
वायुना श्लेष्मपित्ताभ्यां मूर्तैरातङ्कनामभिः
अनुक्तैरपि भूतैश्च संवृतो लोककृत्स्वयम्
तेषां मध्ये ऽविशत्सौरिः सव्रीडेव वधूर्यथा
ते प्रविष्टं यमं दृष्ट्वा सकायस्थं सनारदम्
संप्राप्तो हि लोककरं द्रष्टुं देवं पितामहम्
सो ऽयमभ्यागतः कस्मात्कञ्चित्क्षेमं दिवौकसाम्
लेखकः समनुप्राप्तो दैन्येन महतान्वितः
यन्न दृष्टं श्रुन्त वापि तदिहैव प्रदृश्यते
निपपाताग्रतो विप्रा ब्रह्मणो रविनन्दनः
परिभूतो ऽस्मि देवेश यन्मार्जितपटः कृतः
एवं ब्रुवन्स निश्चेष्टो बभूव द्विजसंत्तमाः
योर्ऽथं रोदयते लोकान्सर्वान्स्थावरज गमान्