भग्नो याम्यो ऽभवन्मार्गो द्वादशादित्यतापितः
देवा नामपि ये लोकास्ते शून्या ह्यभवंस्तथा
मुक्त्वैकां द्वादशीं मर्त्या नान्यं जानन्ति ते व्रतम्
नारदो धर्मराजानं गत्वा चेदमुवाच ह
न चापि क्रियते लेख्यं किञ्चिद्दुष्कृतकर्मणाम्
कारणं किं न चायान्ति पापिनो येन ते गृहम्
एवमुक्ते तु वचने नारदेन महात्मना
यो ऽयं नारद भूपालः पृथिव्यां सांप्रतं स्थितः
प्रबोधयति राजेन्द्रः स जनं पटहेन हि
ये केचिद्भुञ्जते मर्त्यास्ते मे दण्डेषु यान्ति हि
व्याजेनापि मुनुश्रेष्ठ द्वादश्यां समुपोषिताः
द्वादशीसेवनाल्लोकाः प्रायान्ति हरिमन्दिरम्
कृत हि नरकाः शून्या लोकाश्चापि दिवौकसाम्
एकादश्युपवासस्य माहात्म्येन द्विजोत्तम
समुपोष्य दिनं विष्णोः प्रयान्ति हरिमन्दिरम्
नेत्रहीनः कर्णहीनः संध्याहीनो द्विजो यथा
त्यक्तकामस्त्वहं ब्रह्मंल्लोकपालत्वमीदृशम्
निर्व्यापारो नियोगी तु नियोगे यस्तु तिष्ठति
एवमुक्त्वा यमो विप्रा नारदेन समन्वितः
स ददर्श समासीनं मूर्तामूरतजनावृतम्
स्वभवं भूतनिलयमोङ्काराख्यमकल्मषम्
उपास्यमानं विविधैर्लोकपालैर्दिगीश्वरैः
मूर्तिमद्भिः समुद्रैश्य नदीभिश्च सरोवरैः
वापीकूपतडागाद्यैर्मूर्तिमद्भिश्च पर्वतैः
कलाकाष्ठानिमेषैश्च ऋतुभिश्चायनैर्युगैः
ऋक्षैर्योगैश्च करणैः पौर्णमासेंदुसंक्षयैः
सत्यानृतैश्च देवेशो वेष्टितो धर्मपावकः
सत्त्वेन रजसा चैव तमसा च पितामहः
वायुना श्लेष्मपित्ताभ्यां मूर्तैरातङ्कनामभिः
अनुक्तैरपि भूतैश्च संवृतो लोककृत्स्वयम्