कर्तव्यो ह्युपवासस्तु अन्यथा नरकं व्रजेत्
संततेस्तु विनाशाय संपदां हरणाय च
सुराया बिन्दुना स्पृष्ट यथा गङ्गाजलन्त्यजेत्
एकादशीं द्विजश्रेष्ठाः पक्षयोरुभयोरपि
दानवेभ्यो द्विजश्रेष्ठाः प्रीणनार्थं महात्मनाम्
संक्रुद्वैरपि यद्दत्तं यद्दत्तं चाप्यसत्कृतम्
यदुच्छिष्टेन दत्तं तु यद्दत्तं पतितेष्वपि
पुनः कीर्तनसंयुक्तं तद्दत्तमसुरेषु वै
यथा हन्तिपुरा पुण्यं श्राद्धं च वृषलीपतिः
तिथौ विद्धे क्षयं याति तमः सूर्योदये यथा
तथा हि वेधं विबुधास्त्यजन्ति तिथ्यन्तरं धर्मविवृद्धये सदा
यया तोषं समायाति प्रददाति समीहितम्
कर्मणा केन स प्रीतो भवेद्यः सचराचरः
भक्त्या संपूजितो विष्णुः प्रददाति मनोरथम्
जनेनापि जगन्नाथः पूजितः क्लेशहा भवेत्
अत्रापि श्रूयते विप्रा आख्यानं पापनाशनम्
आसीद्ग्रुक्माङ्गदो राजा सार्वभौमः क्षमान्वितः
नान्यं पश्यति देवेशात्पद्मनाभान्महीपतिः
अष्टवर्षाधिको यस्तु पञ्चाशीत्यूनवर्षकः
स मे दण्ड्यश्चग वध्यश्च निर्वास्यो नगराद्बहिः
पद्मनाभदिने भोक्ता निग्राह्यो दस्युवद्भवेत्
ममेद वचनं शृत्वा राज्यं भुञ्जीत मामकम्
अशुक्ले तु विशेषेण पटहे हेमसंपुटे
गच्छिद्भिः संकुलो मार्गः कृतो कृतो लोकैर्हरेर्द्विजाः
ज्ञानात्प्रमादतो वापि ते यान्ति हरिमन्दिरम्
व्याजेनापि प्रकुर्वाणैर्द्वादशीं पापनाशिनीम्
स प्राप्नोति धराधर्मं यो नाश्नाति हरेर्दिने
एकादश्यां न भोक्तव्यं पक्षयोरुभयोरपि
लेख्यकर्मणि विश्रान्तश्चित्रगुप्तो ऽभवत्तदा
गच्छन्ति वैष्णवं लोकं स्वधर्मैर्मानवाः क्षणात्