प्रत्यहं शोधयेत्प्राज्ञस्तिथिं दैवज्ञचिन्तकात्
चन्द्रार्कचारविज्ञानात्कालं कालविदो विदुः
वर्जयन्ति नरास्तज्ज्ञा यामांश्च चतुरो द्विजाः
न दिवा शुद्धिमाप्नोति तदा रात्रौ विधीयते
विधिरेष मया ख्यातो नराणामुपवासिनाम्
स्नानार्चनक्रिया कार्य्या दानहोमादिसंयुता
शतयज्ञाधिकं वापि नरः प्राप्नोत्यसंशयम्
पितृतर्पणसंयुक्तं न दृष्ट्वा द्वादशीदिनम्
करोति धर्महरणमस्नातेव सरस्वती
उपोष्या द्वादशी पुण्या पूर्वविद्धां विवर्जयेत्
तदोपवासो हि कथं कर्तव्यो मानवैर्वद
द्वितीये ऽह्नि यदा न स्यात्स्वल्पाप्येकादशी तिथिः
यदा न प्राप्यते विप्रा द्वादश्यां पूर्वसम्भवम्
बह्वा गमविरोधेषु ब्राह्मणेषु विवादिषु
एकादश्यां तु विद्धायां संप्राप्ते श्रवणे तथा
एष वो निर्णयः प्रोक्तो मया शास्त्रविनिर्णयात्
युगादीनां वदविधिं सौते सम्यग्यथातथम्
द्वे शुक्ले द्वे तथा कृष्णे युगाद्याः कवयो विदुः
अयनं दिनभागाढ्यं संक्रमः षोडशः पलः
मध्यकाले तु विषुवे त्वक्षया परिकीर्तिता
कर्तव्यो ह्युपवासस्तु अन्यथा नरकं व्रजेत्
संततेस्तु विनाशाय संपदां हरणाय च
सुराया बिन्दुना स्पृष्ट यथा गङ्गाजलन्त्यजेत्
एकादशीं द्विजश्रेष्ठाः पक्षयोरुभयोरपि
दानवेभ्यो द्विजश्रेष्ठाः प्रीणनार्थं महात्मनाम्
संक्रुद्वैरपि यद्दत्तं यद्दत्तं चाप्यसत्कृतम्
यदुच्छिष्टेन दत्तं तु यद्दत्तं पतितेष्वपि
पुनः कीर्तनसंयुक्तं तद्दत्तमसुरेषु वै
यथा हन्तिपुरा पुण्यं श्राद्धं च वृषलीपतिः
तिथौ विद्धे क्षयं याति तमः सूर्योदये यथा