द्वादशीं ये प्रपन्ना हि नरा नरवरोत्तम
स्रग्विणः पीतवस्त्राश्च प्रयान्ति हरिमन्दिरम्
पापेन्धनस्य घोरस्य पावकाख्यो महीपते
इच्छद्भिर्विपुलान्योगान्पुत्रपौत्रादिकांस्तथा
बहुवृजिनसमेतो ऽकामतः कामतो वा व्रजति पदमनन्तं लोकनाथस्य विष्णोः
पप्रच्छुर्मुनयः सूतं व्यासशिष्यं महामतिम्
माहात्म्यं कथयामास उपवासविधिं तथा
माहात्म्यं चक्रिणश्चापि सर्वपापौघ शान्तिदम्
अष्टादश पुराणानि भवान् जानाति मानद
तन्नास्ति यन्न वेत्सि त्वं पुराणेषु स्मृतिष्वपि
अस्माकं संशयः कश्चिद्धृदये संप्रवर्तते
तिथेः प्रान्तमुपोष्यं स्यादाहोस्विन्मूलमेव च
तिथेः प्रान्तं सुराणां हि उपोष्यं प्रीतिवर्द्धनम्
अतः प्रान्तमुपोष्यं हि तिथेर्दशफलेप्सुभिः
पूर्वविद्धा न कर्तव्या द्वितीया चाष्टमी तथा
पूर्वविद्धा द्विजश्रेष्ठाः कर्तव्या सप्तमी सदा
पूर्वविद्धानिमांस्त्यक्त्वा नरकं प्रतिपद्यते
एतच्छ्रुतं मया विप्राः कृष्णद्वैपायनात्पुरा
पूर्वविद्धा तु मन्तव्या प्रभूता नोदयं विना
पित्र्ये ऽस्तमनवेलायां स्पर्शे पूर्णा निगद्यते
प्रत्यहं शोधयेत्प्राज्ञस्तिथिं दैवज्ञचिन्तकात्
चन्द्रार्कचारविज्ञानात्कालं कालविदो विदुः
वर्जयन्ति नरास्तज्ज्ञा यामांश्च चतुरो द्विजाः
न दिवा शुद्धिमाप्नोति तदा रात्रौ विधीयते
विधिरेष मया ख्यातो नराणामुपवासिनाम्
स्नानार्चनक्रिया कार्य्या दानहोमादिसंयुता
शतयज्ञाधिकं वापि नरः प्राप्नोत्यसंशयम्
पितृतर्पणसंयुक्तं न दृष्ट्वा द्वादशीदिनम्
करोति धर्महरणमस्नातेव सरस्वती
उपोष्या द्वादशी पुण्या पूर्वविद्धां विवर्जयेत्