दक्षिणां प्रददेच्छक्त्या भक्त्या प्रीयेत माधवः
काशी पुरी नगो मेरुर्देवो नारायणो हरिः
मार्गो मृगेन्द्रः पुरुषो ऽश्वत्थः प्रह्लाद आननम्
पावको विष्णुरिन्द्रश्च कपिलो वाक्पतिः कविः
उर्वशी काञ्चनं यद्वच्छ्रेष्टाश्चैते स्वजातिषु
शान्तिरस्तु शिवं चास्तु सर्वेषां वो द्विजोत्तमाः
इत्युक्त्वाभ्यर्चितः सूतः शौनकाद्यैर्महात्मभिः
श्रुतं सम्यगनुष्ठाय तत्र तस्थुश्च सत्रिणः
स तु निर्विषमनसा समेत्य यागं लभते सतमभीप्सितं हि लोकम्
त्रैलोक्यमण्डपस्तंभाश्चत्वारो हरिबाहवः
हरिपादांबुजद्वन्द्वमभीष्टप्तदमस्तु नः
कोवह्निर्दहते तस्य तद्भवान्वक्तुमर्हति
विद्यते तव विप्रेन्द्र त्रिविधस्य सुनिश्चितम्
भाव्यं वाप्यथवातीतं वर्तमान वदस्व नः
श्रूयतां नृपशार्दूल वह्निना येन तद्भवेत्
भस्म शुष्कं तथार्द्रं च पापमस्य ह्येशेषतः
उपवासपरो भूत्वा पूजयेन्मधुसूदनम्
विशोधयति पापानि कितवो हि यथा धनम्
भस्मतां याति राजेन्द्र अपि जन्मशतोद्भवम्
यादृशं पद्मनाभस्य दिनं पातकहानिदम्
यावन्नोपवसेज्जन्तुः पद्मनाभदिमं शुभम्
एकादश्युपवासस्य कलां नार्हन्ति षोडशीम्
एकादश्युपवासेन तत्सर्वं विलयं व्रजेत्
व्याजेनापि कृता राजन्न दर्शयति भास्करिम्
सुकलत्रप्रदा ह्येषा शरीरारोग्यदायिनी
न चापि कैरवं क्षेत्रं न रेवा न च देविका
अनायासेन राजेन्द्र प्राप्यते हरिमन्दिरम्
सर्वपापविनिर्मुक्तो विष्णुलोके व्रजेन्नरः
भार्याया दश पक्षे च पुरुषानुद्धरेत्तथा
चिन्तामणिसमा ह्येषा अथवापि निधेः समा