स शिवः सादरं तस्य भक्त्या संतुष्टमानसः
स लब्ध्वा शांभवं ज्ञानं शङ्कराल्लोकशङ्करात्
तत्रापि नारदो ऽभीक्ष्णं गतागतपरायणः
एतद्वः कीर्तितं विप्रा नारदीयं महन्मया
चतुष्पादसमायुक्तं शृण्वतां ज्ञानवर्द्धनम्
समाजे द्विजमुख्यानां तथा केशवमन्दिरे
सेतौ काञ्च्यां कुशस्थल्यां गङ्गाद्वारे कुशस्थले
स लभेत्सर्वय ज्ञानां तीर्थानां च फलं महत्
उपवासपरो वापि हविष्याशी जितेन्द्रियः
शिवभक्तिरतो वापि शृण्वन् सिद्धिमवाप्नुयात्
कथितः सर्वपापघ्नः पठतां शृण्वतां सदा
सर्वेषामीप्सितं चेदं सर्वज्ञानप्रकाशकम्
तथैव गाणपत्यानां वर्णाश्रमवतां द्विजाः
मन्त्राणां चैव यन्त्राणां वेदाङ्गानां विभागशः
य एतत्पठते भक्त्या शृणुयाद्वा समाहितः
श्रुत्वेदं नारदीयं तु पुराणं वेदसंमितम्
भूमिदानैर्गवां दानै रत्नदानैश्च संततम्
यस्तु व्याकुरुते विप्राः पुराणं धर्मसंग्रहम्
कायेन मनसा वाचा धनाद्यैरपि संततम्
श्रुत्वा पुराणं विधिवद्धोमं कृत्वा सुरार्चनम्
दक्षिणां प्रददेच्छक्त्या भक्त्या प्रीयेत माधवः
काशी पुरी नगो मेरुर्देवो नारायणो हरिः
मार्गो मृगेन्द्रः पुरुषो ऽश्वत्थः प्रह्लाद आननम्
पावको विष्णुरिन्द्रश्च कपिलो वाक्पतिः कविः
उर्वशी काञ्चनं यद्वच्छ्रेष्टाश्चैते स्वजातिषु
शान्तिरस्तु शिवं चास्तु सर्वेषां वो द्विजोत्तमाः
इत्युक्त्वाभ्यर्चितः सूतः शौनकाद्यैर्महात्मभिः
श्रुतं सम्यगनुष्ठाय तत्र तस्थुश्च सत्रिणः
स तु निर्विषमनसा समेत्य यागं लभते सतमभीप्सितं हि लोकम्
त्रैलोक्यमण्डपस्तंभाश्चत्वारो हरिबाहवः