इषामायां विशेषण पितॄणां श्राद्धतर्पणम्
ऊर्ज्जामायां दीपदानं देवा गारगृहेषु च
समर्चनं तथा लक्ष्म्याः स्वर्णरौप्ये कृताकृते
गवां पूजात्र विहिता शृङ्गाद्यङ्गानुरञ्जनैः
मार्गे ऽपि पितृपूजा स्याच्छ्रद्धैर्ब्राह्मणभोजनैः
पौषे माघे च विप्रेन्द्र पितृश्राद्धं फलाधिकम्
फआल्गुने केवलं श्राद्धं द्विजानां भोजनं तथा
इत्थं संक्षेपतः प्रोक्तं तिथिकृत्यं मुने तव
सर्वत्रापि विशेषो ऽस्ति स पुराणान्तरे स्थितः
संपूजिताः शास्त्रविदां वरिष्ठाः कृताह्निका जग्मुरुमेशलोकम्
सुरासुरेन्द्रैरभिवन्द्यमुग्रं नत्वाज्ञया तस्य निषेदुरुर्व्याम्
जग्मुस्ततो ज्ञानघनस्वरूपा नत्वा पुरारिं स्वपितुर्निकाशम्
लब्ध्वाशिषो ऽद्यापि चरन्ति शश्वल्लोकेषु तीर्थानि च तीर्थभूताः
दध्युश्चिरं विष्णुपदाब्जमव्ययं ध्यायन्ति यद्यतयो वीतरागाः
लब्ध्वा ज्ञानं सविज्ञानं भृशं प्रीतमना ह्यभूत्
प्रणम्य सत्कृतः पित्रा ब्रह्मणा निषसाद च
वर्णयामास तत्त्वेन सो ऽपि श्रुत्वा मुमोद च
आजगाम च कैलासं मुनिसिद्धनिषेवितम्
मन्दारैः पारिजातैश्च चंपकाशोकवञ्जुलैः
वातोद्धूतशिखैः पान्थानाह्वयद्भिरिवावृतम्
सरोभिः स्वच्छसलिलैर्लसत्काञ्चनपङ्कजैः
स्वर्द्धनीपातनिर् घृष्टं क्रीडद्भिश्चाप्सरोगणैः
आमोदमुदितैर्नागैः सलिलैः पुष्करोद्धृतैः
अथ श्वेताभ्रसदृशे शृङ्गे तस्य च भूभृतः
तस्याधस्तात्समासीनं योगिमण्डलमध्यगम्
भूतिभूषितसर्वाङ्गं नागभूषणभूषितम्
तं दृष्ट्वा नारदो विप्रा भक्तिनम्रात्मकन्धरः
ततः प्रसन्नमनसा स्तुत्वा वाग्भिर्वृषध्वजम्
अथापृच्छच्च कुशलं नारदं जगतां गुरुः
सर्वेषां योगिवर्याणां शृण्वतां तत्र वाडवाः