पुरन्दरश्च सोमश्च तथा तिष्यो बृहस्पतिः
अलङ्कृतं पुनश्चकुः सौभाग्योत्सवकेलिभिः
गौरसर्षपकल्केन समालभ्य स्वकां तनुम्
दृष्ट्वा च मङ्गलं द्रव्यं स्पृष्ट्वा नत्वा ततोर्ऽचयेत्
विधाय होमं विप्रांश्च तर्पयेत्पायसाशनैः
अलक्ष्मीनाशनं चैव मोदतेह परत्र च
रत्नानि कञ्चुकोष्णीषपादत्राणानि वा धनम्
यस्त्वत्र शङ्करं देवं पूजयेद्विधिपूर्वकम्
फआल्गुने पूर्णिमायां तु होलिकापूजनं मतम्
तत्राग्निं विधिवद्ध्रुत्वा रक्षोघ्नैर्मन्त्रविस्तरैः
अतस्त्वां पूजयिष्यामि भूते भूतिप्रदा भव"
परिक्रम्योत्सवः कार्य्यो गीतवादित्रनिःस्वनैः
ततस्तां प्रदहॄन्त्येवं काष्ठाद्यैर्गीतमङ्गलैः
इति जानीहि विप्रेन्द्र लोके स्थितिरनेकधा
पृथक्छृणुष्व मे विप्र पितॄणामतिवल्लभम्
पार्वणेन विधानेन श्राद्धं वित्तानुसारतः
सर्वमासेष्वमायां वै बहुपुण्यप्रदं यतः
विधानं ज्येष्ठपूर्णावदिहापि परिकीर्तितम्
पितृश्राद्धं दानहोमसुरार्चानन्त्यश्नुते
विरिञ्चिमनुनामन्त्र्य हुंफट् छिन्नान्कुशान् द्विज
इषामायां विशेषण पितॄणां श्राद्धतर्पणम्
ऊर्ज्जामायां दीपदानं देवा गारगृहेषु च
समर्चनं तथा लक्ष्म्याः स्वर्णरौप्ये कृताकृते
गवां पूजात्र विहिता शृङ्गाद्यङ्गानुरञ्जनैः
मार्गे ऽपि पितृपूजा स्याच्छ्रद्धैर्ब्राह्मणभोजनैः
पौषे माघे च विप्रेन्द्र पितृश्राद्धं फलाधिकम्
फआल्गुने केवलं श्राद्धं द्विजानां भोजनं तथा
इत्थं संक्षेपतः प्रोक्तं तिथिकृत्यं मुने तव
सर्वत्रापि विशेषो ऽस्ति स पुराणान्तरे स्थितः
संपूजिताः शास्त्रविदां वरिष्ठाः कृताह्निका जग्मुरुमेशलोकम्