न चैतान्पीडयेद्राजा कथञ्चित्काममोहितः
प्रायश्चित्ते ततश्चीर्णे कुर्याद्ब्राह्मणभोजनम्
क्रिमिभिस्तृण संभूतैर्मक्षिकादिनिपातितैः
प्रायश्चित्तं च कृत्वा वै भोजयित्वा द्विजोत्तमान्
चाण्डालश्वपचैः स्पृष्टे निशि स्नानं विधीयते
वसेदथ यदा रात्रावज्ञानादविचक्षणः
उद्गच्छन्ति च नक्षत्राण्युपरिष्टाच्च ये ग्रहाः
याश्चान्तर्जलवल्मीकमूषिकोषरवर्त्मसु
इष्टापूर्तं तु कर्त्तव्यं ब्राह्मणेन प्रयत्नतः
वित्तक्षेपो भवेदिष्टं तडागं पूर्त्तमुच्यते
वापीकूपतडागानि देवतायतनानि च
शुक्लाया आहरेन्मूत्रं कृष्णाया गोः शकृत्तथा
कपिलाया घृतं ग्राह्यं महापातकनाशनम्
आहृत्य प्रणवेनैव उत्थाप्य प्रणवेन च
पालाशे मध्यमे पर्णे भाण्डे ताम्रमये शुभे
सूतके तु समुत्पन्ने द्वितीये समुपस्थिते
जातेन शुध्यते जातं मृतेन मृतकं तथा
गर्भसंस्त्रवणे मासे त्रीण्यहानि विनिर्दिशेत्
रजस्युपरते साध्वी स्ननेन स्त्री रजस्वला
स्वामिगोत्रेण कर्त्तव्यास्तस्याः पिण्डोदकक्रियाः
षण्णां देयास्त्रयः पिण्डा एवं दाता न मुह्यति
पितामह्यपि स्वेनैव स्वेनैव प्रपितामही
अदैवं भोजयेच्छ्राद्धं पिण्डमेकं तु निर्वपेत्
पार्वणं चेति विज्ञेयं श्राद्धं पञ्चविधं बुधैः
निर्वपेर्त्रीन्नरः पिण्डानेकमेव मृते ऽहनि
पाणिग्रहणमन्त्राभ्यां स्वगोत्राद्भ्रश्यते ततः
तत्समं सूतकं याति तथापिण्डोदके ऽपि च
एकत्वं सा व्रजेद्भर्तुः पिण्डे गोत्रे च सूतके
अस्थिसंचयनं कार्यं बन्धुभिर्हितबुद्धिभिः
अस्थिसंचयनं प्रोक्तं वर्णानामनुपूर्वशः