वर्षे वर्षे तदुत्सर्गे विदध्याद्विधिपूर्वकम्
हैमा रौप्या मृन्मयाश्च घटाः पञ्चदशोत्तमाः
पञ्चामृतेन संस्राप्य जलैः शुद्धैस्ततोर्ऽचयेत्
भोजयेच्चैव मिष्टान्नैर्दद्यात्तेभ्यश्च दक्षिणाम्
एवं कृत्वा व्रतं चैव उमामाहेश्वराभिधम्
अथास्मिन्नेव दिवसे शक्रव्रतमपि स्मृतम्
गन्धाद्यैंरुपचारैस्तु नैवेद्यानां च राशिभिः
समागतांस्तथैवान्यान्दीनानाथांश्च भोजयेत्
राज्ञा वा धनिनान्येन धान्यनिष्पत्तिमिच्छता
तेन स्नात्वा विधानेन सोपवासो जितेन्द्रियः
मृन्मये वा सवस्त्रान्तामुपचारैः पृथग्विधम्
हैमान्रौप्यान्मृन्मयान्वा घृतपूर्णान्प्रदीपयेत्
घृतशर्करसंमिश्रं विपाच्य बहु पायसम्
याममात्रे गते रात्र्या लक्ष्म्यै तद्विनिवेदयेत्
सहैव जागरं कुर्य्यान्नृत्यगीतसुमङ्गलैः
अस्यां रात्रौ महालक्ष्मीर्वराभयकरांबुजा
तस्मै वित्तं प्रयच्छामि जाग्रते पूजकाय मे
समृद्धिमैहिकीं दद्याद्द्वेहान्ते पारलौकिकीम्
विप्रत्वलब्धये भूयः सर्वशत्रुजयाय च
निशामुखे द्विजश्रेष्ठ सर्वजीवसुखावहः
दृष्ट्वा प्रदीपान्नहि ते ऽपि जन्मिनः पुनश्च मुक्तिं हि लभन्त एव च
अत्र चन्द्रोदये विप्र संपूज्याः कृत्तिकाश्च षट्
गन्धपुष्पैस्तथा धूपदीपैर्नैवेद्येविस्तरैः
एवं देवान्समभ्यर्च्य दीपो देयो गृहाद्बहिः
चतुर्द्दंशाङ्गुलः कार्यः सेच्यश्चदनवारिणा
मुक्तानेत्रसमायुक्तं मत्स्यं सर्वाङ्गशोभनम्
गन्धाद्यैस्तत्र संपूज्य द्विजाय प्रतिपादयेत्
दानस्यास्य प्रभावेण मोदते हरिसन्निधौ
रुद्रलोकमवाप्नोति नात्र कार्या विचारणा
देवं विप्राय शान्ताय सर्वकामसमृद्धये