यः प्रदद्याद्द्विजाग्र्येभ्यः स न शोचति कर्हिचित्
सोपवासा वटं सिंचेत्सलिलैरमृतोपमैः
ततः संप्रार्थद्दैवीं सावित्रीं सुपतिव्रताम्
पत्या सहावियोगं मे वटस्थे कुरु ते नमः
सुवासिनीः स्वयं भुञ्ज्यात्सा स्यात्सौभाग्यभागिनी
चतुर्भुजं महाकायं जांबूनदसमप्रभम्
सेवितं मुनिभिर्देवैर्यक्षगन्धर्वकिन्नरैः
पौरुषेणैव सूक्तेन गन्धाद्यैरुपचारकैः
भोजयेन्मिष्टपक्वान्नैर्द्विजानन्यांश्च शक्तितः
ऐहिकामुष्मिकान्कामांल्लभते नात्र संशयः
पूर्णिमायां समारभ्य व्रतं स्नायाद्ब्रहिर्जले
स्वर्णपक्षां रत्ननेत्रां प्रवालमुखपङ्कजाम्
चूतचंपकवृक्षस्थां कलगीतनिनादिनीम्
गन्धाद्यैः प्रत्यहं प्रार्च्चेल्लिखितां वर्णकैः पटे
दद्याद्विप्राय मन्त्रेण भक्त्या सस्वर्णदक्षिणाम्
संपूज्य दत्ता विप्राय सर्वसौख्यकरी भव
वस्त्रादिदक्षिणां शक्त्या दत्वा नत्वा विसर्जयेत्
सा लभेत्सुखसौभाग्यं सप्तजन्मसुनारद
यजुर्भिस्तत्र कर्त्तव्यं देवर्षिपितृतर्पणम्
बहवृचैस्तु चतुर्द्वश्यां सामगैर्भाद्रगे करे
रक्षाविधानं च तथा कर्तव्यं विधिपूर्वकम्
गन्धाद्यैरभिपूज्य देवनिकरान्संप्रार्थ्य विष्ण्वादिकान्बध्नीयाद्द्विजहस्ततः प्रमुदितो नत्वा प्रकोष्ठे स्वके
विसृज्य च ऋषीन्सप्त धारयेद्ब्रह्मसूत्रकम्
शक्त्या संभोज्य विप्राग्र्यानेकभुक्तं समाचरेत्
विस्मृतं विधिहीनं च न कृतं सुकृतं भवेत्
एकभुक्तश्च यस्तां तु शिवं संपूज्य यत्नतः
एवं विज्ञाप्य देवं तु गृह्णीयाद्व्रतमुत्तमम्
कृतमैत्रादिनित्यस्तु भस्मरुद्राक्षधृक् ततः
बिल्वपत्रैः सुगन्धाढ्येर्ंनैवेद्यैर्धूपदीपकैः
पुनः संपूज्य तत्रैव रात्रौ जागरणं चरेत्