सदक्षिणांशुकास्ताम्रामृन्मयाश्चाव्रणा नवाः
पात्राणि यज्ञसूत्राणि तावत्येव हि कल्पयेत्
शेषं प्रागुक्तवत्कुर्याद्वित्तशाठ्यविवर्ज्जितः
यानि कृत्वा नरो नारी प्राप्नुयात्सुखसंततिम्
अस्यां सान्नोदकं कुंभं प्रदद्यात्सोमतुष्टये
यद्यद्द्रव्यं ददेद्विप्रे तत्तदाप्नोति निश्चितम्
शृतान्नमुदकुंभं च वैशाख्यां वै द्विजोत्तमे
अत्र कृष्णाजिनं दद्यात्सखुरं च सशृङ्गकम्
यस्तु कृष्णाजिनं दद्यात्सत्कृत्य विधिपूर्वकम्
मोदते विष्णु लोके हि यावच्चन्द्रार्कतारकम्
यः प्रदद्याद्द्विजाग्र्येभ्यः स न शोचति कर्हिचित्
सोपवासा वटं सिंचेत्सलिलैरमृतोपमैः
ततः संप्रार्थद्दैवीं सावित्रीं सुपतिव्रताम्
पत्या सहावियोगं मे वटस्थे कुरु ते नमः
सुवासिनीः स्वयं भुञ्ज्यात्सा स्यात्सौभाग्यभागिनी
चतुर्भुजं महाकायं जांबूनदसमप्रभम्
सेवितं मुनिभिर्देवैर्यक्षगन्धर्वकिन्नरैः
पौरुषेणैव सूक्तेन गन्धाद्यैरुपचारकैः
भोजयेन्मिष्टपक्वान्नैर्द्विजानन्यांश्च शक्तितः
ऐहिकामुष्मिकान्कामांल्लभते नात्र संशयः
पूर्णिमायां समारभ्य व्रतं स्नायाद्ब्रहिर्जले
स्वर्णपक्षां रत्ननेत्रां प्रवालमुखपङ्कजाम्
चूतचंपकवृक्षस्थां कलगीतनिनादिनीम्
गन्धाद्यैः प्रत्यहं प्रार्च्चेल्लिखितां वर्णकैः पटे
दद्याद्विप्राय मन्त्रेण भक्त्या सस्वर्णदक्षिणाम्
संपूज्य दत्ता विप्राय सर्वसौख्यकरी भव
वस्त्रादिदक्षिणां शक्त्या दत्वा नत्वा विसर्जयेत्
सा लभेत्सुखसौभाग्यं सप्तजन्मसुनारद
यजुर्भिस्तत्र कर्त्तव्यं देवर्षिपितृतर्पणम्
बहवृचैस्तु चतुर्द्वश्यां सामगैर्भाद्रगे करे