चतुष्पथे गृहाद्ब्राह्मप्रदेशे वा समाहितः
शुक्लपक्षे चतुर्द्दश्यामरुणाभ्युदयं प्रति
मणिकर्णिक तीर्थे च त्रिपुण्ड्रं भस्मना दधत्
ततस्तत्र महापूजां लिङ्गे गन्धादिभिश्चरेत्
पुष्पैः फलैर्मिष्टपक्वैर्नैवेद्यैर्विविधैरपि
लभते वाञ्छितान्कामानिहामुत्र च नारद
सोपवासः पञ्चगव्यं पिबेद्रात्रौ जितेन्द्रियः
श्वेतायाः क्षीरमुदितं रक्तायाश्च तथा दधि
कुशां बुना ततः प्रातः स्नात्वा सन्तर्प्यं देवताः
ब्रह्मकूर्चव्रतं ह्येतत्सर्वपातकनाशनम्
ब्रह्मकूर्चोपवासेन तत्क्षणादेव नश्यति
सोपवासो दिवा नक्तं पाषाणाकारपिष्टचकम्
व्रतमेतच्चरित्वा तु यथोक्तं द्विजसत्तम
मार्गशुक्लचतुर्दश्यामेकभुक्तः पुरोदितम्
परे ऽह्नि प्रातरुत्थाय स्नात्वा सोमं महेश्वरम्
द्विजान्सम्भोज्य मिष्टान्नौस्तोषयेद्दक्षिणादिभिः
कर्तृआणामुपदेष्टृआणां साह्यानामनुमोदिनाम्
कपर्दीश्वरसांनिध्यं प्राप्स्याम्यत्र विचिन्त्य च
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा
माघकृष्णचतुर्द्दश्यां यमतर्पणमीरितम्
द्विसप्तनामभिः प्रोक्तैः सर्वपापविमुक्तये
कृशरान्नं स्वयं चापि तदेवाश्नीत वाग्यतः
निर्जलं समुपोष्यात्र दिवानक्तं प्रपूजयेत्
गन्धाद्यैरुपचारैश्च सांबुबिल्वदलादिभिः
ततः परे ऽह्नि संपूज्य पुनरेवोपचारकैः
एवं कृत्वा व्रतं मर्त्यो महादेवप्रसादतः
अन्त्यशुक्लचतुर्दश्यां दुर्गां संपूज्य भक्तितः
एवं कृत्वा व्रतं विप्र दुर्गायाश्चैकभोजनः
चैत्रकृष्णचतुर्दश्यामुपवासं विधाय च
उद्यापने तु सर्वांसां सामान्यो विधिरुच्यते