एवं यः पूजयेत्पैष्टं लिङ्गं सर्वार्थसिद्धिदम्
ज्येष्ठशुक्लचतुर्दश्यां दिवा पञ्चतपा निशः
शुचिशुक्लचतुर्दश्यां शिवं संपूज्य मानवः
नभः शुक्लचतुर्दश्यां पवित्रारोपणं मतम्
शताभिमन्त्रितं कृत्वा ततो देव्यै निवेदयेत्
महादेव्याः प्रसादेन भुक्तिं मुक्तिमवाप्नुयात्
कर्त्तव्यमेकभुक्तं हि गोधूमप्रस्थपिष्टकम्
गन्धाद्यैः प्राक् समभ्यर्च्यः कार्पासं पट्टजं तु वा
ततः पुराणमुत्तार्य सूत्रं क्षिप्त्वा जलाशयें
विपाच्य पिष्टपक्वं तत्प्रदद्याद्दक्षिणान्वितम्
द्विसप्तवर्षपर्यन्तं तत उद्यापयेत्सुधीः
सुशोभने न्यसेत्तत्र कलशं ताम्रजं मुने
पीतपट्टांशुकाच्छन्नां तत्र तां विधिना यजेत्
ततो होमं हविष्येण कृत्वा पूर्णाहुतिं चरेत्
प्रदद्याद्गुरवे भक्त्या द्विजानन्यांश्चतुर्दश
एवं यः कुरुते ऽनन्तव्रतं प्रत्यक्षमादरात्
कदलीव्रतमप्यत्र तद्विधानं च मे शृणु
स्नात्वा संपूजयेद्गन्धपुष्पधान्याङ्कुरादिभिः
एवं संपूज्य मन्त्रेण ततः संप्रार्थयेर्द्वती
शरीरारोग्यलावण्यं देहि देवि नमो ऽस्तु ते
संभोज्यां शुकसिद्वरकज्जलालक्तचर्चिताः
एवं कृते व्रते विप्र लब्ध्वा सौभाग्यमुत्तमम्
इषकृष्णचतुर्द्दश्यां विषशस्त्रांबुवह्निभिः
चतुर्द्दश्यां क्रियाश्राद्धमेकोद्दिष्टविधानतः
तर्पणं च गवां ग्रासं बलिं चैव श्वकाकयोः
एवं यः कुरुते विप्र श्राद्धं संपन्नदक्षिणम्
इषशुक्ल चतुर्द्दश्यां धर्मराजं द्विजोत्तम
दद्यात्तस्मै धर्मराजस्त्रायते भुवि नारद
स भुक्त्वेह वरान्भोगान्दिवं धर्माज्ञया व्रजेत्
कृत्वा स्नात्वार्चयेद्धर्मं नरकादभयं लभेत्