एवमेव तु कृष्णासु सर्वासु द्विजसत्तम
राधशुक्लचतुर्दश्यां श्रीनृसिंहव्रतं चरेत्
निशागमे तु संपूज्य नृसिंहं दैत्यसूदनम्
ततः क्षमापयेद्देवं मन्त्रेणानेन नारद
वज्राधिकनखस्पर्शदिव्यसिंह नमो ऽस्तु त
जितेन्द्रियो जितक्रोधः सर्वभोगविवर्ज्जितः
वर्षे वर्षे स लभते भुक्तभोगो हरेः पदम्
दुर्लभं वार्चनं तत्र दर्शनं पापनाशनम्
यद्भवेत्तत्समुद्दिष्टं ज्ञानमोक्षप्रदं नृणाम्
पञ्चामृतैस्तु संस्नाप्य लिङ्गमालिप्य कुङ्कुमैः
एवं यः पूजयेत्पैष्टं लिङ्गं सर्वार्थसिद्धिदम्
ज्येष्ठशुक्लचतुर्दश्यां दिवा पञ्चतपा निशः
शुचिशुक्लचतुर्दश्यां शिवं संपूज्य मानवः
नभः शुक्लचतुर्दश्यां पवित्रारोपणं मतम्
शताभिमन्त्रितं कृत्वा ततो देव्यै निवेदयेत्
महादेव्याः प्रसादेन भुक्तिं मुक्तिमवाप्नुयात्
कर्त्तव्यमेकभुक्तं हि गोधूमप्रस्थपिष्टकम्
गन्धाद्यैः प्राक् समभ्यर्च्यः कार्पासं पट्टजं तु वा
ततः पुराणमुत्तार्य सूत्रं क्षिप्त्वा जलाशयें
विपाच्य पिष्टपक्वं तत्प्रदद्याद्दक्षिणान्वितम्
द्विसप्तवर्षपर्यन्तं तत उद्यापयेत्सुधीः
सुशोभने न्यसेत्तत्र कलशं ताम्रजं मुने
पीतपट्टांशुकाच्छन्नां तत्र तां विधिना यजेत्
ततो होमं हविष्येण कृत्वा पूर्णाहुतिं चरेत्
प्रदद्याद्गुरवे भक्त्या द्विजानन्यांश्चतुर्दश
एवं यः कुरुते ऽनन्तव्रतं प्रत्यक्षमादरात्
कदलीव्रतमप्यत्र तद्विधानं च मे शृणु
स्नात्वा संपूजयेद्गन्धपुष्पधान्याङ्कुरादिभिः
एवं संपूज्य मन्त्रेण ततः संप्रार्थयेर्द्वती
शरीरारोग्यलावण्यं देहि देवि नमो ऽस्तु ते