विश्वरूपाय विश्वाय विश्वनाथाय वै नमः
अरूपाय विरूपाय सूक्ष्मसूक्ष्माय वै नमः
शशाङ्कशेखरायाथ रुद्रभूमिश्रिताय च
लिङ्गरूपाय लिङ्गाय लिङ्गानपतये नमः
नमः प्रभावरूपाय प्रभावार्थाय वै नमः
त्रियंबकाय शितिकण्ठभार्गिणे गौरीयुजे मङ्गलहेतवे नमः
पठित्वा दक्षिणीकृत्य प्रायान्निजनिकेतनम्
भुक्त्वेह भोगानखिलानन्ते शिवपदं लभेत्
त्रिकालमेककालं वा शिवसंगमसंभवम्
घटे मङ्गलपट्टे वा भोजयेद्द्विजदंपती
एवं कृते तु विधिवद्व्रती सौभाग्यभाजनः जायते भुवि विप्रेन्द्र महादेवप्रसादतः
घृतपात्रं द्विजेन्द्राय प्रदद्यात्सर्वसिद्धये
माघस्नानव्रतं विप्र नानाकामफलावहम्
नाश्वमेघसहस्रेण तत्फलं लभते भुवि
फआल्गुने तु सिते पक्षे त्रयोदश्यामुपोषितः
महाराजं यक्षपतिं गन्धाद्यैरुपचारकैः
एवं शुक्लत्रयोदश्यां प्रतिमासं द्विजोत्तम
ततो व्रतान्ते तु पुनः सौवर्णं धननायकम्
उपचारैः षोडशभिः स्नानैः पञ्चामृतादिभिः
ततो धेनुमलङ्कृत्य वस्त्रस्रग्गन्धभूषणैः
संभोज्य विप्रान्मिष्टान्नैर्द्वादशाथ त्रयोदश
द्विजेभ्यो दक्षणां शक्त्या दत्वा नत्वा विसृज्य च
एवं कृते व्रते विप्र निर्धनः प्राप्य वैभवम्
मोदते भुवि विख्यातो राजराज इवापरः
यानि कृत्वा नरो लोके सर्वान्कामानवाप्नुयात्
गन्धाद्यैर्वस्त्रमणिभिः कार्यार्या महती शिवे
एवं कृत्वार्चनं विप्र सोपवासो ऽथवैकभुक्
अत्रैव दमनार्चां च कारयेद्गन्धपुष्पकैः
राधकृष्णच तुर्द्दश्यां सोपवासो निशागमे
गन्धाद्यैरुपचारैश्च बिल्वपत्रैश्च सर्वतः