तानि नामानि कीर्त्यन्ते सर्वाभीष्टप्रदानि वै
कपर्द्दिने सुरेशाय व्योमकेशाय वै नमः
दिगंबराय भृङ्गाय उमाकान्ताय वर्द्धिने
व्यालप्रियाय व्यालाय व्यालानां पतये नमः
त्रिपुरघ्नाय सिंहाय शार्दूलायार्षभाय च
वेदगीताय गुप्ताय वेदगुह्याय वै नमः
नमो जगत्प्रतिष्ठाय व्योमरूपाय वै नमः
गजकृत्ति धरायाथ अन्धकासुरभेदिने
भक्तिप्रियाय देवाय यज्ञान्तायाव्ययाय च
त्रिनेत्राय त्रिवेदाय वेदाङ्गाय नमो नमः
विश्वरूपाय विश्वाय विश्वनाथाय वै नमः
अरूपाय विरूपाय सूक्ष्मसूक्ष्माय वै नमः
शशाङ्कशेखरायाथ रुद्रभूमिश्रिताय च
लिङ्गरूपाय लिङ्गाय लिङ्गानपतये नमः
नमः प्रभावरूपाय प्रभावार्थाय वै नमः
त्रियंबकाय शितिकण्ठभार्गिणे गौरीयुजे मङ्गलहेतवे नमः
पठित्वा दक्षिणीकृत्य प्रायान्निजनिकेतनम्
भुक्त्वेह भोगानखिलानन्ते शिवपदं लभेत्
त्रिकालमेककालं वा शिवसंगमसंभवम्
घटे मङ्गलपट्टे वा भोजयेद्द्विजदंपती
एवं कृते तु विधिवद्व्रती सौभाग्यभाजनः जायते भुवि विप्रेन्द्र महादेवप्रसादतः
घृतपात्रं द्विजेन्द्राय प्रदद्यात्सर्वसिद्धये
माघस्नानव्रतं विप्र नानाकामफलावहम्
नाश्वमेघसहस्रेण तत्फलं लभते भुवि
फआल्गुने तु सिते पक्षे त्रयोदश्यामुपोषितः
महाराजं यक्षपतिं गन्धाद्यैरुपचारकैः
एवं शुक्लत्रयोदश्यां प्रतिमासं द्विजोत्तम
ततो व्रतान्ते तु पुनः सौवर्णं धननायकम्
उपचारैः षोडशभिः स्नानैः पञ्चामृतादिभिः
ततो धेनुमलङ्कृत्य वस्त्रस्रग्गन्धभूषणैः