सतकृत्य भोज्य प्रतिमे दद्यात्ताभ्यां सदक्षिणे
धेनुयुग्मान्विते देये व्रतसंपूर्तिहेतवे
लक्ष्मीनारायणं कृत्वा सौवर्णं वापि राजतम्
पीठे विन्यस्य वस्त्राढ्यं गन्धाद्यैः परिपूजयेत्
एवं दिनत्रयं कृत्वा व्रतान्ते मासमर्च्य च
पञ्चगावः समुत्पन्ना मथ्यमाने महोदधौ
प्रदक्षिणीकृत्य ततो दद्याद्विप्राय मन्त्रतः
गावो मे पार्श्वतः संतु गवां मध्ये वसाम्यहम्
लक्ष्मीनारायणं तस्मै सत्कृत्य प्रतिपादयेत्
कृत्वा यत्फलमाप्नोति गोत्रिरात्रव्रताच्च तत्
हैमं ह्यशोकं निर्माय पूजयित्वा विधानतः
अष्टोत्तरशतं विप्र मन्त्रेणानेन सादरम्
लोकोपकारकरणस्तत्प्रसीद शिवप्रिय
समभ्यर्च्य विधानेन द्विजं संभोज्य दापयेत्
पुत्रपौत्रादि सहिता भर्तुश्च स्यात्सुवल्लभा
प्रदोषे तैलदीपं तु प्रज्वाल्याभ्यर्च्य यत्नतः
एवं कृते तु विप्रेन्द्र यमपीडा न जायते
पुनः स्नात्वा प्रदोषे तु वाग्यतः सुसमाहितः
प्रदीपयेच्छिवं वापि द्वात्रिंशद्दीपमालया
फलैर्नानाविधैश्चैव नैवेद्यैरपि नारद
तानि नामानि कीर्त्यन्ते सर्वाभीष्टप्रदानि वै
कपर्द्दिने सुरेशाय व्योमकेशाय वै नमः
दिगंबराय भृङ्गाय उमाकान्ताय वर्द्धिने
व्यालप्रियाय व्यालाय व्यालानां पतये नमः
त्रिपुरघ्नाय सिंहाय शार्दूलायार्षभाय च
वेदगीताय गुप्ताय वेदगुह्याय वै नमः
नमो जगत्प्रतिष्ठाय व्योमरूपाय वै नमः
गजकृत्ति धरायाथ अन्धकासुरभेदिने
भक्तिप्रियाय देवाय यज्ञान्तायाव्ययाय च
त्रिनेत्राय त्रिवेदाय वेदाङ्गाय नमो नमः