यानि कृत्वा नरो भक्त्या सुभगो जायते भुवि
कृत्वा संपूज्य यत्नेन वीजेयव्द्यजनेन च
अनङ्गपूजाप्यत्रोक्ता तां निबोध मुनीश्वर
रतिप्रीतियुतं श्लक्ष्णं पुष्पचापेषुधारिणम्
मध्याह्ने पूजयेद्भक्त्या गन्धस्रग्भूषणांशुकैः
नमो माराय कामाय कामदेवस्य मूर्त्तये
तत्तस्याग्रतो भक्त्या पूजयेदङ्गनापतिम्
संपूज्य द्विजदांपत्यं गन्धवस्त्रविभूषणैः
वसंतसमये प्राप्ते हृष्टः पुष्टः सदैव सः
मदनं हृद्भवं कामं मन्मथं च रतिप्रियम्
कुसुमायुधसंज्ञं च ततः पश्चान्मनोभवम्
अजाया दानमप्युक्तं स्नात्वा नद्या विधानतः
भूयस्त्वनेन दानेन स लोके नैव जायते
गङ्गायां यदि लभ्येत कोटिसूर्यग्रहाधिका
महामहेति विख्याता कुलकोटिविमुक्तिदा
तत्र गन्धादिभिः कामं पूजयेदुपवासवान्
एवमेव व्रतं कार्यं वर्षान्ते गामलङ्कृताम्
ज्येष्ठशुक्लत्रयोदश्यां दौर्भाग्यशमनं व्रतम्
श्वेतमन्दारमर्कं वा करवीरं च रक्तकम्
मन्दारकरवीरार्का भवन्तो भास्करांशजाः
इत्थं योर्ऽचयते भक्त्या वर्षे वर्षे द्रुमत्रयम्
शुचिशुक्लत्रयोदश्यामेकभक्तं समाचरेत्
हैम्यौ रौप्यौ च मृन्मप्यौ यथाशक्त्या विधाय च
स्थापयित्वा प्रतिष्ठाप्य दैवमन्त्रेण नारद
तृतीयदिवसे प्रातः स्नात्वा संपूज्य तौ पुनः
वर्षे वर्षे ततः पश्चाद्विधेयं वर्षपञ्चकम्
इत्थं नरो वा नारी वा कृत्वा व्रतमिदं शुभम्
नभः शुक्लत्रयोदश्यां रतिकामव्रतं शुभम्
कृतोपवासा कन्यैव नारी वा द्विजसत्तम
रतिकामौ प्रविन्यस्य गन्धाद्यैः सम्यगर्चयेत्