एवं कृत्वैकभक्तः सन्विष्णु चिन्तनतत्परः
अन्त्ये सितायां द्वादश्यां सौवर्णीं प्रतिमां हरेः
द्विषट्कसंख्यान्विप्रांश्च भोजयित्वा च दक्षिणाम्
त्रिस्पृशोन्मीलिनी पक्षवर्द्धिनी वञ्जुली तथा
एता अष्टौ सदोपोष्या द्वादश्यः पापहारिकाः
तत्सर्वं मे समाचक्ष्व याश्चन्याः पुण्यदायुकाः
प्रशस्य भ्रातरं प्राह महाभागवतं मुनिः
वक्ष्ये महाद्वादशीनां लक्षणं च फलं पृथक्
तदा तु त्रिस्पृशा नाम द्वादशी सा महाफला
अश्वमेधसहस्रस्य फलं लभते ध्रुवम्
तदा तां संपरित्यज्य द्वादशीं समुपोषयेत्
राजसूयसहस्रस्य फलमुन्मीलिते लभेत्
तदा वञ्जुलिकाख्यां तु तां त्यक्त्वोपोषयेत्सदा
पूजयेत्सततं भक्त्या सर्वस्याभयदं परम्
सर्वपापहरा प्रोक्ता सर्वसंपत्प्रदायिनी
पक्षवर्द्धनिका नाम द्वादशी सा महाफला
सर्वैश्वर्य्यप्रदं साक्षात्पुत्र पौत्रविवर्धनम्
तदा प्रोक्ता जया नाम सर्वशत्रुविनाशिनी
सर्वकामप्रदं नॄणां सर्वसौभाग्यदायकम्
तदा सा विजया नाम तस्यामचेद्गदाधरम्
सर्वतीर्थफलं विप्र तां चोपोष्याप्नुयान्नरः
द्वादशी सा महापुण्या जयन्ती नामतः स्मृता
उपोषितैषा विप्रेन्द्र सर्वव्रतफलप्रदा
यदा तु स्यात्सिते पक्षे द्वादशी जीवभान्विता
अस्यां समर्चयेद्देवं नारायणमनामयम्
अस्यास्तूपोषणादेव मुक्तः स्याद्विप्र भोजनः
तदा व्रतद्वयं कार्य्यं न दोषो ऽत्रैकदैवतम्
ऊर्ज्जे सितायां द्वादश्यामन्त्यभे च व्रतद्वयम्
निसर्गतः समुद्दिष्टं व्रतं पातकनाशनम्
नोद्यापनमिहोद्दिष्टं कर्त्तव्यं जीविताविधि