श्वेताया वैकवर्णाया अन्तरिक्षगतं द्विज
शोषयेदातपे धृत्वा पात्रे ताम्रे ऽथ मृन्मये
सौवर्णीं प्रतिमां विष्णोर्निशायां जागरं चरेत्
ततः प्रभाते द्वादश्यां तिलपात्रोपरि स्थिताम्
ततो ऽग्निं नवमुत्पाद्य काष्ठसंघर्षणादिभिः
होमयेत्सतिलाज्यां च द्वादशाक्षरविद्यया
भोजयेत्पायसैर्विप्रान्प्रीत्या सुस्निग्धमानसः
नरो वा यदि वा नारी व्रतं कृत्वैवमादरात्
सहस्ये शुक्लपक्षे तु सुजन्मद्वादशीव्रतम्
पीत्वा गशृङ्गवार्यादौ तां च कृत्वा प्रदक्षिणम्
घृतप्रस्थं तच्चतुष्कं क्रमाद्वीहेर्यवस्य च
रौप्यस्य माषमेकं च तृप्तिकृन्मिष्टपक्वकम्
चन्दनं पलिकं वस्त्रं पञ्चहस्तोन्मितं तनुम्
गोमूत्रं जलमाज्यं वा पक्त्वा शाकं चतुर्विधम्
दर्भांबुक्षीरमुदितं प्राशनं प्रतिमासिकम्
कृत्वा वै ताम्रपात्रस्थां न्यस्याभ्यर्च्य विधानतः
विप्रान्द्रादश संभोज्य तेभ्यो दद्याच्च दक्षिणाम्
निरोगो धनधान्याढ्यो भवेच्चाविकलेद्रियः
अभ्यच्य विधिवद्भक्त्या सुवर्णं तन्मुखे न्यसेत्
प्रदद्याद्वेदविदुषे तं हि संभोजयेत्ततः
एवं कृत्वैकभक्तः सन्विष्णु चिन्तनतत्परः
अन्त्ये सितायां द्वादश्यां सौवर्णीं प्रतिमां हरेः
द्विषट्कसंख्यान्विप्रांश्च भोजयित्वा च दक्षिणाम्
त्रिस्पृशोन्मीलिनी पक्षवर्द्धिनी वञ्जुली तथा
एता अष्टौ सदोपोष्या द्वादश्यः पापहारिकाः
तत्सर्वं मे समाचक्ष्व याश्चन्याः पुण्यदायुकाः
प्रशस्य भ्रातरं प्राह महाभागवतं मुनिः
वक्ष्ये महाद्वादशीनां लक्षणं च फलं पृथक्
तदा तु त्रिस्पृशा नाम द्वादशी सा महाफला
अश्वमेधसहस्रस्य फलं लभते ध्रुवम्